Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1195
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
अ꣣पघ्न꣢न्तो꣣ अ꣡रा꣢व्णः꣣ प꣡व꣢मानाः स्व꣣र्दृ꣡शः꣢ । यो꣡ना꣢वृ꣣त꣡स्य꣢ सीदत ॥११९५॥
स्वर सहित पद पाठअ꣣पघ्न꣡न्तः꣢ । अ꣣प । घ्न꣡न्तः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । प꣡व꣢꣯मानाः । स्व꣣र्दृ꣡शः꣢ । स्वः꣣ । दृ꣡शः꣢꣯ । यो꣡नौ꣢꣯ । ऋ꣣त꣡स्य꣢ । सी꣣दत ॥११९५॥
स्वर रहित मन्त्र
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । योनावृतस्य सीदत ॥११९५॥
स्वर रहित पद पाठ
अपघ्नन्तः । अप । घ्नन्तः । अराव्णः । अ । राव्णः । पवमानाः । स्वर्दृशः । स्वः । दृशः । योनौ । ऋतस्य । सीदत ॥११९५॥
सामवेद - मन्त्र संख्या : 1195
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment
विषयः - अथ ब्रह्मानन्दप्राप्तेः फलं वर्णयति।
पदार्थः -
हे सोमाः परमानन्दरसाः ! (अराव्णः) अदानभावान्। [न रान्ति इति अरावाणः तान्, नञ्पूर्वाद् रातेर्दानकर्मणः ‘आतो मनिन्क्वनिब्वनिपश्च’। अ० ३।२।७४ इति वनिप् प्रत्ययः।] (अपघ्नन्तः) विनाशयन्तः, (पवमानाः) पवित्रतां प्रयच्छन्तः, (स्वर्दृशः) अन्तःप्रकाशस्य दर्शयितारः यूयम् (ऋतस्य योनौ) सत्यस्य मन्दिरे जीवात्मनि (सीदत) उपविशत ॥९॥
भावार्थः - ब्रह्मानन्दो यदान्तरात्मनि प्रतितिष्ठति तदा स्वार्थवृत्तयः सर्वा नश्यन्ति, परार्थभावना समुदेति, पवित्रताऽन्तःप्रकाशश्च परिस्फुरति ॥९॥ अस्मिन् खण्डे परमात्मविषयस्य ब्रह्मानन्दविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ९।१३।९।