Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1198
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

म꣣दच्यु꣡त्क्षे꣢ति꣣ सा꣡द꣢ने꣣ सि꣡न्धो꣢रू꣣र्मा꣡ वि꣢प꣣श्चि꣢त् । सो꣡मो꣢ गौ꣣री꣡ अधि꣢꣯ श्रि꣣तः꣢ ॥११९८॥

स्वर सहित पद पाठ

म꣣दच्यु꣢त् । म꣣द । च्यु꣢त् । क्षे꣣ति । सा꣡द꣢꣯ने । सि꣡न्धोः꣢꣯ । ऊ꣣र्मा꣢ । वि꣣पश्चि꣢त् । वि꣣पः । चि꣢त् । सो꣡मः꣢꣯ । गौ꣣री꣡इति꣢ । अ꣡धि꣢꣯ । श्रि꣣तः꣢ ॥११९८॥


स्वर रहित मन्त्र

मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् । सोमो गौरी अधि श्रितः ॥११९८॥


स्वर रहित पद पाठ

मदच्युत् । मद । च्युत् । क्षेति । सादने । सिन्धोः । ऊर्मा । विपश्चित् । विपः । चित् । सोमः । गौरीइति । अधि । श्रितः ॥११९८॥

सामवेद - मन्त्र संख्या : 1198
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(मदच्युत्) आनन्दस्रावकः परमेश्वरः (सादने) जीवात्मरूपे गृहे (क्षेति) क्षियति निवसति, (विपश्चित्) मेधावी जीवात्मा च (सिन्धोः) रससागरस्य परमेश्वरस्य (ऊर्मौ) आनन्दतरङ्गे (क्षेति) निवसति, तत्र दोलारोहणमनुभवतीत्यर्थः। (सोमः) स रसागारः परमात्मा (गौरी) गौर्यां शुभ्रायां वेदवाचि। [गौरी इति वाङ्नाम। निघं० १।११।] (अधि श्रितः) स्थितोऽस्ति, वर्णितो वर्तते ॥३॥

भावार्थः - वेदा यस्य महिमानं गायं गायं न श्राम्यन्ति तस्यानन्दसिन्धोः परमेश्वरस्यानन्दवीचिनिचयेषु दोलायमानो जीवः कृतकृत्यो जायते ॥३॥

इस भाष्य को एडिट करें
Top