Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 12
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
7

दू꣣तं꣡ वो꣢ वि꣣श्व꣡वे꣢दसꣳ हव्य꣣वा꣢ह꣣म꣡म꣢र्त्यम् । य꣡जि꣢ष्ठमृञ्जसे गि꣣रा꣢ ॥१२॥

स्वर सहित पद पाठ

दू꣣त꣢म् । वः꣣ । विश्व꣡वे꣢दसम् । वि꣣श्व꣢ । वे꣣दसम् । हव्यवा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । य꣡जि꣢꣯ष्ठम् । ऋ꣣ञ्जसे । गिरा꣢ ॥१२॥


स्वर रहित मन्त्र

दूतं वो विश्ववेदसꣳ हव्यवाहममर्त्यम् । यजिष्ठमृञ्जसे गिरा ॥१२॥


स्वर रहित पद पाठ

दूतम् । वः । विश्ववेदसम् । विश्व । वेदसम् । हव्यवाहम् । हव्य । वाहम् । अमर्त्यम् । अ । मर्त्यम् । यजिष्ठम् । ऋञ्जसे । गिरा ॥१२॥

सामवेद - मन्त्र संख्या : 12
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

पदार्थः -
हे परमात्मन् ! (दूतम्) दौत्यमापन्नम्, सद्गुणग्रामान् अस्मत्समीपे समानेतुं दूतवदाचरन्तम्, (विश्ववेदसम्) विश्वानि सर्वाणि पूर्वजन्मन्यस्मिन् जन्मनि च कृतानि कर्माणि वेत्तीति विश्ववेदास्तम्, (हव्यवाहम्) हव्यं दातव्यं कर्मफलं वहति प्रापयतीति तम् कर्मफलदातारम्, (अमर्त्यम्) अमरणधर्माणम्, (यजिष्ठम्) अतिशयेन यष्टारम्—महतः सृष्टिचक्रप्रवर्तनयज्ञस्य संचालकं (वः) त्वाम्३। यज धातोस्तृजन्ताद् यष्टृ शब्दादिष्ठनि तुरिष्ठेमेयस्सु। अ० ६।४।१५४ इति तृचो लोपः। अहम् (गिरा) वेदवाचा (ऋञ्जसे) प्रसाधयामि, अनुनयामि। ऋञ्जतिः प्रसाधनकर्मा। निरु० ६।२१। लेट्युत्तमैकवचने ‘सिब्बहुलं लेटि। अ० ३।१।१४ इति सिप् ॥२॥

भावार्थः - मनुष्यः शुभान्यशुभानि वा यान्यपि कर्माण्याचरति परमेश्वरस्तत्क्षणमेव तानि जानाति, यथाकालं तेषां फलं चावश्यं प्रयच्छति। जरामरणरहितः, सृष्टियज्ञस्य परमयाज्ञिकः परमेश्वरोऽस्माभिः सश्रद्धं वेदमन्त्रोच्चारणपुरस्सरं सदा वन्दनीयः ॥२॥

इस भाष्य को एडिट करें
Top