Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 11
ऋषिः - आयुङ्क्ष्वाहिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
11

न꣡म꣢स्ते अग्न꣣ ओ꣡ज꣢से गृ꣣ण꣡न्ति꣢ देव कृ꣣ष्ट꣡यः꣢ । अ꣡मै꣢र꣣मि꣡त्र꣢मर्दय ॥११॥

स्वर सहित पद पाठ

न꣡मः꣢꣯ । ते꣣ । अग्ने । ओ꣡ज꣢꣯से । गृ꣣ण꣡न्ति꣢ । दे꣣व । कृष्ट꣡यः꣢ । अ꣡मैः꣢꣯ । अ꣣मि꣡त्र꣢म् । अ꣣ । मि꣡त्र꣢꣯म् । अ꣣र्दय ॥११॥


स्वर रहित मन्त्र

नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैरमित्रमर्दय ॥११॥


स्वर रहित पद पाठ

नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः । अमैः । अमित्रम् । अ । मित्रम् । अर्दय ॥११॥

सामवेद - मन्त्र संख्या : 11
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

पदार्थः -
हे (देव) ज्योतिर्मय विद्यादिज्योतिष्प्रदायक वा (अग्ने) लोकनायक जगदीश्वर राजन् वा ! (कृष्टयः२) मनुष्याः। कृष्टय इति मनुष्यनामसु पठितम्। निघं० २।३। (ते) तव (ओजसे) बलाय। ओज इति बलनाम। निघं० २।९ (नमः) नमोवचांसि (गृणन्ति) उच्चारयन्ति। गृ शब्दे, क्र्यादिः। भूयो भूयस्त्वद्बलं प्रशंसन्तीत्यर्थः। त्वम् (अमैः३) तादृशैः स्वकीयैः बलैः। अम गतिशब्दसंभक्तिषु भ्वादिः। अमं भयं बलं वा इति निरुक्तम्। १०।२१ (अमित्रम्) शत्रुम् अर्दय पीडय विनाशय। अर्द हिंसायाम् चुरादिः ॥१॥ अत्र अर्थश्लेषालङ्कारः ॥१॥

भावार्थः - हे जगदीश्वर राजन् वा ! कीदृशं त्वदीयं महद् बलं येन त्वं निःसहायान् रक्षसि, यत्कारणाच्च त्वत्पुरतो दर्पवतामपि दर्पाः संचूर्यन्ते। त्वमस्माकमध्यात्ममार्गे विघ्नान् जनयन्तं कामक्रोधादिषड्रिपुवर्गं लोकमार्गे च बाधा उपस्थापयन्तं मानवं शत्रुदलं तादृशैः स्वकीयैर्बलैः समूलमुच्छिन्धि, येन निःसपत्नाः सन्तो वयमकण्टकमात्मिकं बाह्यं च स्वराज्यं भुञ्जीमहि ॥१॥

इस भाष्य को एडिट करें
Top