Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1203
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

आ꣡ प꣢वमान धारया र꣣यि꣢ꣳ स꣣ह꣡स्र꣢वर्चसम् । अ꣣स्मे꣡ इ꣢न्दो स्वा꣣भु꣡व꣢म् ॥१२०३॥

स्वर सहित पद पाठ

आ । प꣣वमान । धारय । र꣢यिम् । स꣣ह꣡स्र꣢वर्चसम् । स꣣ह꣡स्र꣢ । व꣣र्च꣡सम् । अस्मे꣡इति꣢ । इ꣣न्दो । स्वाभु꣡व꣢म् । सु꣣ । आभु꣡व꣢म् ॥१२०३॥


स्वर रहित मन्त्र

आ पवमान धारया रयिꣳ सहस्रवर्चसम् । अस्मे इन्दो स्वाभुवम् ॥१२०३॥


स्वर रहित पद पाठ

आ । पवमान । धारय । रयिम् । सहस्रवर्चसम् । सहस्र । वर्चसम् । अस्मेइति । इन्दो । स्वाभुवम् । सु । आभुवम् ॥१२०३॥

सामवेद - मन्त्र संख्या : 1203
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 8
Acknowledgment

पदार्थः -
हे (पवमान) पवित्रताप्रदायक (इन्दो) रसेन क्लेदक परमात्मन् ! त्वम् (अस्मे) अस्मासु [अस्मच्छब्दात् ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन सप्तमीबहुवचनस्य शे आदेशः।] (सहस्रवर्चसम्) अनन्तब्रह्मवर्चसयुक्तम्, (स्वाभुवम्) सुव्यापकम् (रयिम्) दिव्यानन्दरूपं धनम् (धारय) स्थापय ॥८॥

भावार्थः - परमात्मोपासकाः खल्वायुष्मन्तस्तेजस्विनो ब्रह्मवर्चस्विनो दिव्यानन्दा विद्वांसः श्रीमन्तश्च जायन्ते ॥८॥

इस भाष्य को एडिट करें
Top