Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 121
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
5

य꣣ज्ञ꣡ इन्द्र꣢꣯मवर्धय꣣द्य꣢꣫द्भूमिं꣣ व्य꣡व꣢र्तयत् । च꣣क्राण꣡ ओ꣢प꣣शं꣢ दि꣣वि꣢ ॥१२१॥

स्वर सहित पद पाठ

य꣣ज्ञः꣢ । इ꣡न्द्र꣢꣯म् । अ꣣वर्धयत् । य꣢त् । भू꣡मि꣢म् । व्य꣡व꣢꣯र्तयत् । वि꣣ । अ꣡व꣢꣯र्तयत् । च꣣क्राणः꣢ । ओपश꣢म् । ओ꣣प । श꣢म् । दि꣣वि꣢ ॥१२१॥


स्वर रहित मन्त्र

यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥१२१॥


स्वर रहित पद पाठ

यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । व्यवर्तयत् । वि । अवर्तयत् । चक्राणः । ओपशम् । ओप । शम् । दिवि ॥१२१॥

सामवेद - मन्त्र संख्या : 121
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment

पदार्थः -
(यज्ञः) परोपकाराय क्रियमाणं महत् कर्म (इन्द्रम्) परमात्मानम्, परमात्मनो महिमानमिति यावत्, (अवर्धयत्) वर्धयति। सामान्यकालार्थे लङ्। यज्ञे निदर्शनमाह—(यत्) यथा (दिवि) द्युलोके (ओपशम्२) सूर्यरूपं किरीटम्। आ आगत्य उपशेते शिरसि विराजते इति ओपशः किरीटम्। (चक्राणः) चक्रिवान् स इन्द्रः। कृधातोर्लिटः कानच्। चित्वात् चितः। अ० ६।१।१६३ इत्यन्तोदात्तत्वम्। (भूमिम्) पृथिवीम् (व्यवर्तयत्) सूर्यं परितो विवर्तयति परिक्रमयति ॥७॥

भावार्थः - परमेश्वरो हि यज्ञस्यादर्शरूपः। तेन क्रियमाणस्य यज्ञस्यैव निदर्शनं विद्यते यत् स द्युलोके महान्तं मुकुटमणिभूतं सूर्यं संस्थाप्य तं परितः पृथिवीम् अण्डाकृतिमार्गेण चक्रतया भ्रमयति, येन षड्ऋतुचक्रं प्रवर्तते ॥७॥

इस भाष्य को एडिट करें
Top