Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1210
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
अ꣣या꣢ वी꣣ती꣡ परि꣢꣯ स्रव꣣ य꣡स्त꣢ इन्दो꣣ म꣢दे꣣ष्वा꣢ । अ꣣वा꣡ह꣢न्नव꣣ती꣡र्नव꣢꣯ ॥१२१०॥
स्वर सहित पद पाठअ꣣या꣢ । वी꣣ती꣢ । प꣡रि꣢꣯ । स्र꣣व । यः꣢ । ते꣣ । इन्दो । म꣡दे꣢꣯षु । आ । अ꣣वा꣡ह꣢न् । अ꣣व । अ꣡ह꣢꣯न् । न꣣वतीः꣢ । न꣡व꣢꣯ ॥१२१०॥
स्वर रहित मन्त्र
अया वीती परि स्रव यस्त इन्दो मदेष्वा । अवाहन्नवतीर्नव ॥१२१०॥
स्वर रहित पद पाठ
अया । वीती । परि । स्रव । यः । ते । इन्दो । मदेषु । आ । अवाहन् । अव । अहन् । नवतीः । नव ॥१२१०॥
सामवेद - मन्त्र संख्या : 1210
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४९५ क्रमाङ्के परमात्मानं सम्बोध्य व्याख्याता। अत्र वीरो जनः सम्बोध्यते।
पदार्थः -
हे (इन्दो) तेजसा देदीप्त वीर ! त्वम् (अया वीती२) अनया रीत्या (परि स्रव) व्यवहर, यत् (यः) यो जनः (ते मदेषु आ) तव वीरताजनितानाम् उत्साहानां सम्पर्कं प्राप्नुयात्, सः (नवनवतीः) नवतिनवतिसंख्यकानां शत्रुयोद्धॄणां नवव्यूहान् (अवाहन्) अवहन्यात् ॥१॥
भावार्थः - वीरः सेनापतिः स्वसेनाया भटानेवमुत्साहयेद् यत्ते प्रतिभटानां शतशोऽपि व्यूहान् क्षणेनावच्छिन्द्युः। आन्तरस्य देवासुरसंग्रामस्य चमूपतिर्जीवात्माप्यान्तरान् शत्रूनुत्सादयितुं तथैवाचरेत् ॥१॥
टिप्पणीः -
१. ऋ० ९।६१।१, साम० ४९५। २. अया अनया वीत्या मार्गेण परिस्रव—इति वि०। अया अनेन रसेन वीती वीत्यै इन्द्रस्य भक्षणाय परिस्रव परिक्षर—इति सा०।