Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1215
ऋषिः - अहमीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
न꣡ त्वा꣢ श꣣तं꣢ च꣣ न꣢꣫ ह्रुतो꣣ रा꣢धो꣣ दि꣡त्स꣢न्त꣣मा꣡ मि꣢नन् । य꣡त्पु꣢ना꣣नो꣡ म꣢ख꣣स्य꣡से꣢ ॥१२१५॥
स्वर सहित पद पाठन । त्वा꣣ । शत꣢म् । च꣣ । न꣢ । ह्रु꣡तः꣢꣯ । रा꣡धः꣢꣯ । दि꣡त्स꣢꣯न्तम् । आ । मि꣣नन् । य꣢त् । पु꣣नानः꣢ । म꣣खस्य꣡से꣢ ॥१२१५॥
स्वर रहित मन्त्र
न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् । यत्पुनानो मखस्यसे ॥१२१५॥
स्वर रहित पद पाठ
न । त्वा । शतम् । च । न । ह्रुतः । राधः । दित्सन्तम् । आ । मिनन् । यत् । पुनानः । मखस्यसे ॥१२१५॥
सामवेद - मन्त्र संख्या : 1215
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ दानवीरः परमात्मा मानवश्च सम्बोध्यते।
पदार्थः -
हे दानवीर परमात्मन् मानव वा ! (यत्) यदा (पुनानः) अस्मान् पवित्रान् कुर्वाणः त्वम् (मखस्यसे२) दानयज्ञं कर्तुं कामयसे। [मखमात्मन इच्छति इति मखस्यते। क्यचि ‘सुग् वक्तव्यः’। अ० ७।१।५१ वा० इत्यनेन सुगागमः।] तदा (राधः) धनम् (दित्सन्तम्) दातुमिच्छन्तम् (त्वा) त्वाम् (शतं च न) शतसंख्याका अपि (ह्रुतः) अस्माकं कुटिला भावाः कुटिला जना वा। [ह्वरन्ति कुटिलमाचरन्तीति ह्रुतः। ह्वृ कौटिल्ये, क्विपि ह्वरः ह्रुः आदेशः तुगागमश्च।] (न आ मिनन्) दानमार्गात् न विचालयितुं शक्नुवन्ति। [मिनातिः वधकर्मा। निघं० २।१९। लेटि रूपम्] ॥३॥
भावार्थः - जगदीश्वरोऽकुटिलानेव जनान् दानपात्रं कुरुते। दानशौण्डा जना बाधकैर्विघ्नैः पुनः पुनः प्रतिहन्यमाना अपि स्वकीयं दानव्रतं न परित्यजेयुः ॥३॥
टिप्पणीः -
१. ऋ० ९।६१।२७। २. मखस्यसे धनं दातुमिच्छसि—इति सा०। यज्ञसमये यज्ञं त्वं यदा करोषि—इति वि०।