Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1219
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
4
अ꣣ग्निं꣡ वो꣢ दे꣣व꣢म꣣ग्नि꣡भिः꣢ स꣣जो꣢षा꣣ य꣡जि꣢ष्ठं दू꣣त꣡म꣢ध्व꣣रे꣡ कृ꣢णुध्वम् । यो꣡ मर्त्ये꣢꣯षु꣣ नि꣡ध्रु꣢विरृ꣣ता꣢वा꣣ त꣡पु꣢र्मूर्धा घृ꣣ता꣡न्नः꣢ पाव꣣कः꣢ ॥१२१९॥
स्वर सहित पद पाठअ꣡ग्नि꣢म् । वः꣣ । देव꣢म् । अ꣣ग्नि꣡भिः꣢ । स꣣जो꣡षाः꣢ । स꣣ । जो꣣षाः꣢꣯ । य꣡जि꣢꣯ष्ठम् । दू꣣त꣢म् । अ꣣ध्वरे꣢ । कृ꣣णुध्वम् । यः꣢ । म꣡र्त्ये꣢꣯षु । नि꣡ध्रु꣢꣯विः । नि । ध्रु꣣विः । ऋता꣡वा꣢ । त꣡पु꣢꣯र्मूर्धा । त꣡पुः꣢꣯ । मू꣣र्धा । घृ꣡तान्नः꣢ । घृ꣣त꣢ । अ꣣न्नः । पावकः ॥१२१९॥
स्वर रहित मन्त्र
अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥१२१९॥
स्वर रहित पद पाठ
अग्निम् । वः । देवम् । अग्निभिः । सजोषाः । स । जोषाः । यजिष्ठम् । दूतम् । अध्वरे । कृणुध्वम् । यः । मर्त्येषु । निध्रुविः । नि । ध्रुविः । ऋतावा । तपुर्मूर्धा । तपुः । मूर्धा । घृतान्नः । घृत । अन्नः । पावकः ॥१२१९॥
सामवेद - मन्त्र संख्या : 1219
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ पुरोहितगुणानाह।
पदार्थः -
हे मनुष्याः ! यः (अग्निभिः सजोषाः) गार्हपत्याहवनीयादिभिः अग्निभिः सप्रीतिः अस्ति, तज्ज्ञानवानस्तीति भावः, तम् (यजिष्ठम्) यज्ञस्य साधकतमम्, (अग्निम्) अग्रगण्यम् (देवम्) विद्वांसम् (वः) यूयम् (अध्वरे) यज्ञे (दूतम्) दूतवन्माध्यमम्, पुरोहितमिति भावः, (कृणुध्वम्) कुरुत, (यः) विद्वान् (मर्त्येषु) मनुष्येषु (निध्रुविः) निरतिशयस्थिरमतिः, (ऋतावा) सत्यनिष्ठः। [ऋतं सत्यम्, ततो मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ’ अ० ५।२।१०९ इति वनिप्। ऋतस्यान्तदीर्घश्छान्दसः।] (तपुर्मूर्धा२) परिपक्वमस्तिष्कः, (घृतान्नः) घृतदुग्धादिसात्त्विकपौष्टिकपदार्थ- भोक्ता, (पावकः) पवित्रतासम्पादकश्च विद्यते ॥१॥३
भावार्थः - सुयोग्य एव कश्चिज्जनोऽध्यात्मयज्ञे बाह्ययज्ञे च पुरोहितत्वेन वरणीयः ॥१॥
टिप्पणीः -
१. ऋ० ७।३।१। २. तपुर्मूर्धा तापकं तेजः—इति सा०। तपुः तापनशीलः, मूर्धा प्रधानभूतः—इति वि०। तदुभयं पदकारविरुद्धम्, पदपाठे ‘तपुर्मूर्धा’ इत्यस्य समस्तपदत्वेन स्वीकृतत्वात्। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्युत्पक्षे व्याख्यातवान्।