Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1220
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
प्रो꣢थ꣣द꣢श्वो꣣ न꣡ यव꣢꣯सेऽवि꣣ष्य꣢न्य꣣दा꣢ म꣣हः꣢ सं꣣व꣡र꣢णा꣣द्व्य꣡स्था꣢त् । आ꣡द꣢स्य꣣ वा꣢तो꣣ अ꣡नु꣢ वाति शो꣣चि꣡रध꣢꣯ स्म ते꣣ व्र꣡ज꣢नं कृ꣣ष्ण꣡म꣢स्ति ॥१२२०॥
स्वर सहित पद पाठप्रो꣡थ꣢꣯त् । अ꣡श्वः꣢꣯ । न । य꣡वसे꣢꣯ । अ꣣विष्य꣢न् । य꣣दा꣢ । म꣣हः꣢ । सं꣣व꣡र꣢णात् । स꣣म् । व꣡र꣢꣯णात् । व्य꣡स्था꣢꣯त् । वि꣣ । अ꣡स्था꣢꣯त् । आत् । अ꣣स्य । वा꣡तः꣢꣯ । अ꣡नु꣢꣯ । वा꣣ति । शोचिः꣢ । अ꣡ध꣢꣯ । स्म꣣ । ते । व्र꣡ज꣢꣯नम् । कृ꣣ष्ण꣢म् । अ꣣स्ति ॥१२२०॥
स्वर रहित मन्त्र
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् । आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥१२२०॥
स्वर रहित पद पाठ
प्रोथत् । अश्वः । न । यवसे । अविष्यन् । यदा । महः । संवरणात् । सम् । वरणात् । व्यस्थात् । वि । अस्थात् । आत् । अस्य । वातः । अनु । वाति । शोचिः । अध । स्म । ते । व्रजनम् । कृष्णम् । अस्ति ॥१२२०॥
सामवेद - मन्त्र संख्या : 1220
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ विद्वद्विषयमाह।
पदार्थः -
(अश्वं न) अश्वो यथा (यदा) यस्मिन् काले (महः संवरणात्) महत्याः वाजिशालायाः (व्यस्थात्) विमुक्तो भवति तदा (अविष्यन्) अत्तुमिच्छन्। [अविष्यन्निति अत्तिकर्मसु पठितम्। निघं० २।९।] (यवसे) घासे निमित्ते (प्रोथत्) हेषते। [प्रोथृ पर्याप्तौ, भ्वादिः, लेटि तिपि रूपम्। प्रोथोऽश्वघोणा, तयोत्थाप्यमाने शब्देऽपि प्रोथतिः प्रयुज्यते।]तथैव यः अग्निः विद्वान् स्नातकः (यदा) यस्मिन् काले (संवरणात्) गुरुकुलस्य नियन्त्रणात् (व्यस्थात्) विमुक्तो जायते तदा (अविष्यन्) रक्षणं करिष्यन् (यवसे) मानवसमाजे। [यु मिश्रणामिश्रणयोः। बाहुलकादौणादिकः अस् प्रत्ययः। यूयते परस्परं मिलति यः स यवसः समाजः।] (प्रोथत्) पूर्णतामानयति। [प्रोथृ पर्याप्तौ ‘पर्याप्तिः पूर्णता’ इति क्षीरस्वामी।] (आत्) अनन्तरम् (वासः) समाजस्य वातावरणम् (अस्य) एतस्य अग्नेः विदुषः स्नातकस्य (शोचिः) दीप्तिम्, प्रभावम् (अनु वाति) अनुसरति। अथ प्रत्यक्षकृतमाह—(अध) तदनन्तरम्, हे अग्ने विद्वन् स्नातक ! (ते) तव (व्रजनम्) गमनम्, व्यापारः इति यावत् (कृष्णम् अस्ति) आकर्षकं जायते ॥२॥२
भावार्थः - कृतसमावर्तनसंस्कारो विद्वान् स्नातको गुरुकुलाद् बहिरागम्य समाजे विद्यायाः सच्चारित्र्यस्य च प्रसारं कुर्यात् ॥२॥
टिप्पणीः -
१. ऋ० ७।३।२। २. इममपि मन्त्रमृग्भाष्ये दयानन्दर्षिर्विद्युद्विषये व्याख्यातवान्। तथा च तत्कृतो भावार्थः—‘यदा मनुष्या अग्नियानेन गमनं तडिता समाचारांश्च गृह्णीयुस्तदैते सद्यः कार्याणि साद्धुं शक्नुवन्ति’ इति।