Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1221
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
5

उ꣡द्यस्य꣢꣯ ते꣣ न꣡व꣢जातस्य꣣ वृ꣢꣫ष्णोऽग्ने꣣ च꣡र꣢न्त्य꣣ज꣡रा꣢ इधा꣣नाः꣢ । अ꣢च्छा꣣ द्या꣡म꣢रु꣣षो꣢ धू꣣म꣡ ए꣢षि꣣ सं꣢ दू꣣तो꣡ अ꣢ग्न꣣ ई꣡य꣢से꣣ हि꣢ दे꣣वा꣢न् ॥१२२१॥

स्वर सहित पद पाठ

उ꣢त् । य꣡स्य꣢꣯ । ते꣣ । न꣡व꣢꣯जातस्य । न꣡व꣢꣯ । जा꣣तस्य । वृ꣡ष्णः꣢꣯ । अ꣡ग्ने꣢꣯ । च꣡र꣢꣯न्ति । अ꣣ज꣡राः꣢ । अ꣣ । ज꣡राः꣢꣯ । इ꣣धानाः꣢ । अ꣡च्छ꣢꣯ । द्याम् । अ꣣रुषः꣢ । धू꣣मः꣢ । ए꣣षि । स꣢म् । दू꣣तः꣢ । अ꣣ग्ने । ई꣡य꣢꣯से । हि । दे꣣वा꣢न् ॥१२२१॥


स्वर रहित मन्त्र

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः । अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥१२२१॥


स्वर रहित पद पाठ

उत् । यस्य । ते । नवजातस्य । नव । जातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । अ । जराः । इधानाः । अच्छ । द्याम् । अरुषः । धूमः । एषि । सम् । दूतः । अग्ने । ईयसे । हि । देवान् ॥१२२१॥

सामवेद - मन्त्र संख्या : 1221
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनेतः विद्वन् ! (यस्य) नवजातस्य नवस्नातकस्य, (वृष्णः) विद्यासुखादिवर्षकस्य (ते) तव (अजराः) अजीर्णाः, (इधानाः) जाज्वल्यमाना दीप्तयः (उत् चरन्ति) उद्गच्छन्ति, सः (अरुषः) आरोचमानः (धूमः) अविद्याभ्रष्टाचारादीनां प्रकम्पकः त्वम्। [धूनोति कम्पयतीति धूमः। धूञ् कम्पने, इत्यस्माद् ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्’ उ० १।१४५ इति मक् प्रत्ययः।] (द्याम् अच्छ) विद्यादिप्रकाशम् अभिलक्ष्य (एषि) गच्छसि, कार्यं करोषि। हे (अग्ने) विद्वन् ! (दूतः) दूत इवाचरन् त्वम् (देवान्) प्रजाजनान् (सम् ईयसे हि) संगच्छसे खलु ॥३॥२

भावार्थः - नवस्नातको गुरुकुलाद् बहिर्गत्वा स्वकीयं तेजःप्रभावं विस्तार्याज्ञानकदाचारादीन् प्रकम्प्य जनसमाजमुन्नयेत् ॥३॥

इस भाष्य को एडिट करें
Top