Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1222
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

त꣡मिन्द्रं꣢꣯ वाजयामसि म꣣हे꣢ वृ꣣त्रा꣢य꣣ ह꣡न्त꣢वे । स꣡ वृषा꣢꣯ वृष꣣भो꣡ भु꣢वत् ॥१२२२॥

स्वर सहित पद पाठ

त꣢म् । इ꣡न्द्र꣢꣯म् । वा꣣जयामसि । महे꣢ । वृ꣣त्रा꣡य꣢ । ह꣡न्त꣢꣯वे । सः꣣ । वृ꣡षा꣢꣯ । वृ꣣षभः꣡ । भु꣣वत् ॥१२२२॥


स्वर रहित मन्त्र

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् ॥१२२२॥


स्वर रहित पद पाठ

तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे । सः । वृषा । वृषभः । भुवत् ॥१२२२॥

सामवेद - मन्त्र संख्या : 1222
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(महे) महते, (वृत्राय) विघ्नविद्रोहोपद्रवपापादिरूपाय शत्रवे। [द्वितीयार्थे चतुर्थी।] (हन्तवे) हन्तुम् (तम्) स्वदेहेऽधिष्ठातृत्वेन विद्यमानम् (इन्द्रम्) रिपुविदारकं जीवात्मानम् (वाजयामसि) बलिनं कुर्मः। (वृषा) बलवान् (सः) असौ जीवात्मा (वृषभः) सुखसम्पद्वर्षकः (भुवत्) भवतु ॥१॥

भावार्थः - स्वकीयमन्तरात्मानमुत्साह्य सर्वेऽपि बाह्या आभ्यन्तराश्च शत्रवो जेतुं शक्यन्ते ॥१॥

इस भाष्य को एडिट करें
Top