Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1223
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

इ꣢न्द्रः꣣ स꣡ दाम꣢꣯ने कृ꣣त꣡ ओजि꣢꣯ष्ठः꣣ स꣡ बले꣢꣯ हि꣣तः꣢ । द्यु꣣म्नी꣢ श्लो꣣की꣢꣫ स सो꣣म्यः꣢ ॥१२२३॥

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । सः । दा꣡म꣢꣯ने । कृ꣣तः꣢ । ओ꣡जि꣢꣯ष्ठः । सः । ब꣡ले꣢꣯ । हि꣣तः꣢ । द्यु꣣म्नी꣢ । श्लो꣣की꣢ । सः । सो꣣म्यः꣢ ॥१२२३॥


स्वर रहित मन्त्र

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सोम्यः ॥१२२३॥


स्वर रहित पद पाठ

इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । बले । हितः । द्युम्नी । श्लोकी । सः । सोम्यः ॥१२२३॥

सामवेद - मन्त्र संख्या : 1223
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(सः इन्द्रः) असौ परमेश्वरो जीवात्मा नृपतिर्वा (दामने) दानाय। [ददातेः ‘सर्वधातुभ्यो मनिन् उ० ४।१४६’ इत्यनेन मनिन्।] (कृतः) प्रेरितो भवतु। (ओजिष्ठः) ओजस्वितमः (सः) असौ, (बले) बले प्राप्तव्ये (हितः) अस्माकं हितकरो भवतु। (सः) असौ (द्युम्नी) तेजस्वी, (श्लोकी२) यशस्वी, (सोम्यः) शान्तिसम्पादकश्च अस्ति भवतु वा। [सोमाय शान्त्यै साधुः सोम्यः] ॥२॥

भावार्थः - परमेश्वरं प्रार्थयित्वा, जीवात्मानमुत्साह्य, राजानं चोद्बोध्य वयं लब्धदाना बलिनस्तेजस्विनो यशस्विनः शान्तियुक्ताश्च भवेम ॥२॥

इस भाष्य को एडिट करें
Top