Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1224
ऋषिः - सुकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
10

गि꣣रा꣢꣫ वज्रो꣣ न꣡ सम्भृ꣢꣯तः꣣ स꣡ब꣢लो꣣ अ꣡न꣢पच्युतः । व꣣व꣢क्ष उ꣣ग्रो꣡ अस्तृ꣢꣯तः ॥१२२४॥

स्वर सहित पद पाठ

गि꣣रा꣢ । व꣡ज्रः꣢꣯ । न । स꣡म्भृ꣢꣯तः । सम् । भृ꣣तः । स꣡ब꣢꣯लः । स । ब꣣लः । अ꣡न꣢꣯पच्युतः । अन् । अ꣣पच्युतः । ववक्षे꣢ । उ꣣ग्रः꣢ । अ꣡स्तृ꣢꣯तः । अ । स्तृ꣣तः ॥१२२४॥


स्वर रहित मन्त्र

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ववक्ष उग्रो अस्तृतः ॥१२२४॥


स्वर रहित पद पाठ

गिरा । वज्रः । न । सम्भृतः । सम् । भृतः । सबलः । स । बलः । अनपच्युतः । अन् । अपच्युतः । ववक्षे । उग्रः । अस्तृतः । अ । स्तृतः ॥१२२४॥

सामवेद - मन्त्र संख्या : 1224
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
(गिरा) निर्घोषेण (वज्रः न) कुलिशः इव (गिरा) वेदवाचा प्रभावशालिन्या वा वाचा (सम्भृतः) संयुक्तः (सबलः) बलवान्, (अनपच्युतः) अविचलितः, (उग्रः) प्रचण्डः, (अस्तृतः) अहिंसितः इन्द्रः परमेश्वरो जीवात्मा नृपतिर्वा (ववक्षे) जगद्भारं देहभारं राष्ट्रभारं वा वहति। [वह प्रापणे, लडर्थे लिटि छान्दसः सुगागमः] ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - यस्य वाचां प्रभावो वज्रनिर्घोषवद् भवति स बलिनां बली, दुष्टेषु प्रचण्डः, केनाप्यजय्यः, परेषां पराजेता परमेश्वरो जीवात्मा राजा च योऽस्ति तं सहायं प्राप्य सर्वे जीवनसङ्ग्रामे विजयिनो जायन्ताम् ॥३॥ अस्मिन् खण्डे पुरोहितस्य, विदुषः स्नातकस्य, परमात्मजीवात्मनृपतीनां च विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top