Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1241
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः देवता - पवमानः सोमः छन्दः - द्विपदा विराट् पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
7

प꣡व꣢स्व सोम म꣣हा꣡न्त्स꣢मु꣣द्रः꣢ पि꣣ता꣢ दे꣣वा꣢नां꣣ वि꣢श्वा꣣भि꣡ धाम꣢꣯ ॥१२४१॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । सो꣣म । महा꣢न् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । पि꣣ता꣢ । दे꣣वा꣢ना꣡म् । वि꣡श्वा꣢꣯ । अ꣣भि꣢ । धा꣡म꣢꣯ ॥१२४१॥


स्वर रहित मन्त्र

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥१२४१॥


स्वर रहित पद पाठ

पवस्व । सोम । महान् । समुद्रः । सम् । उद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥१२४१॥

सामवेद - मन्त्र संख्या : 1241
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (सोम) आनन्दरसागार परमात्मन् ! त्वम् (महान् समुद्रः) महान् मेघोऽसि, (देवानाम्) दिव्यगुणानाम् (पिता) जनकः पालकश्चासि। त्वम् (विश्वा धाम अभि) सर्वाणि हृदयधामानि अभिलक्ष्य (पवस्व) वर्ष ॥१॥ अत्र सोमे परमात्मनि मेघत्वारोपाद् रूपकालङ्कारः ॥१॥

भावार्थः - यथा मेघो भूमौ वर्षित्वा वनस्पत्यादीन्युत्पादयति तथा परमेश्वर आनन्दवृष्ट्या दिव्यगुणान् प्रसूते ॥१॥

इस भाष्य को एडिट करें
Top