Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1244
ऋषिः - उशना काव्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
प्रे꣡ष्ठं꣢ वो꣣ अ꣡ति꣢थिꣳ स्तु꣣षे꣢ मि꣣त्र꣡मि꣢व प्रि꣣य꣢म् । अ꣢ग्ने꣣ र꣢थं꣣ न꣡ वेद्य꣢꣯म् ॥१२४४॥
स्वर सहित पद पाठप्रे꣡ष्ठ꣢꣯म् । वः꣣ । अ꣡ति꣢꣯थिम् । स्तु꣣षे꣢ । मि꣣त्र꣢म् । मि꣣ । त्र꣢म् । इ꣣व । प्रिय꣢म् । अ꣡ग्ने꣢꣯ । र꣡थ꣢꣯म् । न । वे꣡द्य꣢꣯म् ॥१२४४॥
स्वर रहित मन्त्र
प्रेष्ठं वो अतिथिꣳ स्तुषे मित्रमिव प्रियम् । अग्ने रथं न वेद्यम् ॥१२४४॥
स्वर रहित पद पाठ
प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम् । मि । त्रम् । इव । प्रियम् । अग्ने । रथम् । न । वेद्यम् ॥१२४४॥
सामवेद - मन्त्र संख्या : 1244
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र परमात्मनृपत्योरुभयोर्विषय उच्यते।
पदार्थः -
हे (अग्ने) जगन्नायक परमात्मन् राष्ट्रनायक राजन् वा ! (प्रेष्ठम्) प्रियतमम्, (अतिथिम्) अतिथिवत् सत्करणीयम्, (मित्रम् इव) सखायमिव (प्रियम्) प्रीणयितारम्, (रथं न) रथमिव (वेद्यम्) प्राप्तव्यम् (वः) त्वाम्, अहम् (स्तुषे) स्तौमि, तव गुणान् वर्णयामीत्यर्थः ॥१॥ अत्रोपमाङ्कारः ॥१॥
भावार्थः - यथा जनाः परमात्मानं पूजयेयुस्तथा राजानमपि सत्कुर्युः। यथा च परमात्मा जनान् प्रीणयति तथा राजापि प्रजाः प्रीणयेत् ॥१॥
टिप्पणीः -
१. ऋ० ८।८४।१, ‘अग्ने’ इत्यत्र ‘अ॒ग्निं’ इति। साम० ५।