Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1243
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
6
दि꣣वो꣢ ध꣣र्त्ता꣡सि꣢ शु꣣क्रः꣢ पी꣣यू꣡षः꣢ स꣣त्ये꣡ विध꣢꣯र्मन्वा꣣जी꣡ प꣢वस्व ॥१२४३॥
स्वर सहित पद पाठदि꣣वः꣢ । ध꣣र्त्ता꣢ । अ꣣सि । शुक्रः꣢ । पी꣣यू꣡षः꣢ । स꣣त्ये꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । वाजी꣢ । प꣢वस्व ॥१२४३॥
स्वर रहित मन्त्र
दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥१२४३॥
स्वर रहित पद पाठ
दिवः । धर्त्ता । असि । शुक्रः । पीयूषः । सत्ये । विधर्मन् । वि । धर्मन् । वाजी । पवस्व ॥१२४३॥
सामवेद - मन्त्र संख्या : 1243
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि परमात्मविषयमाह।
पदार्थः -
हे सोम जगत्स्रष्टः परमेश ! त्वम् (दिवः) खगोले विद्यमानानां लोकलोकान्तराणाम् (धर्ता) धारयिता, (शुक्रः) तेजस्वी पवित्रश्च, (पीयूषः) आनन्दरसमयश्च (असि) विद्यसे। (वाजी) बलवान् त्वम् (विधर्मन्) विशिष्टधर्मयुक्ते (सत्ये) सत्यचरित्रे मयि (पवस्व) प्रवहस्व ॥३॥
भावार्थः - तेजस्वी पवित्र आनन्दी च परमेश्वरः स्वोपासकानपि तेजस्विनः पवित्रानानन्दिनश्च करोति ॥३॥ अस्मिन् खण्डे परमात्मनो नृपतेराचार्यस्य ज्ञानस्यानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ९।१०९।६।