Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1272
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
ए꣣ष꣡ वसू꣢꣯नि पिब्द꣣नः꣡ परु꣢꣯षा꣣ ययि꣣वा꣡ꣳ अति꣢꣯ । अ꣢व꣣ शा꣡दे꣢षु गच्छति ॥१२७२॥
स्वर सहित पद पाठए꣣षः꣢ । व꣡सू꣢꣯नि । पि꣣ब्दनः꣢ । प꣡रु꣢꣯षा । य꣣यि꣢वान् । अ꣡ति꣢꣯ । अ꣡व꣢꣯ । शा꣡दे꣢꣯षु । ग꣣च्छति ॥१२७२॥
स्वर रहित मन्त्र
एष वसूनि पिब्दनः परुषा ययिवाꣳ अति । अव शादेषु गच्छति ॥१२७२॥
स्वर रहित पद पाठ
एषः । वसूनि । पिब्दनः । परुषा । ययिवान् । अति । अव । शादेषु । गच्छति ॥१२७२॥
सामवेद - मन्त्र संख्या : 1272
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 7
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 7
Acknowledgment
विषयः - अथ कीदृशो जीवात्मा कुत्र परमात्मानमनुभवतीत्याह।
पदार्थः -
(पिब्दनः२) पिबन् स्वयमुपासनारसमास्वादयन् तम् अन्येभ्यो ददाति यः सः३ (एषः) अयं जीवात्मा (परुषा) परुषाणि परिणतौ कठोराणि (वसूनि) भौतिकधनानि (अति ययिवान्) अतिक्रान्तवान् सन् (शादेषु) शाद्वलेषु शष्पप्रदेशेषु४(अवगच्छति) परमात्मानं जानाति अनुभवति ॥७॥
भावार्थः - शष्पादिना हरितेषु रमणीकेषु स्थलेषु परमात्मनो विभूतिदर्शनं सुकरं भवति। तथा च श्रुतिः—उ꣣पह्वरे꣡ गि꣢री꣣णां꣡ स꣢ङ्ग꣣मे꣡ च꣢ न꣣दी꣡ना꣢म् धि꣣या विप्रा अजायत (साम० १४३) इति ॥७॥
टिप्पणीः -
१. ऋ० ९।१५।६ ‘पिब्द॒ना’ इति भेदः। २. पिब्दनः पीडयन्—इति सा०। पिबमानः सोमलक्षणानि—इति वि०। ३. ‘पिब्दनः’ इति पदं पदकारेण नावगृहीतम्, अस्पष्टार्थत्वात्। ४. शादो जम्बालशष्पयोः इत्यमरः (३।३।९०)।