Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1271
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
ए꣣ष꣡ शृङ्गा꣢꣯णि꣣ दो꣡धु꣢व꣣च्छि꣡शी꣢ते यू꣣थ्यो꣣꣬३꣱वृ꣡षा꣢ । नृ꣣म्णा꣡ दधा꣢꣯न꣣ ओ꣡ज꣢सा ॥१२७१॥
स्वर सहित पद पाठए꣣षः꣢ । शृ꣡ङ्गा꣢꣯णि । दो꣡धु꣢꣯वत् । शि꣡शी꣢꣯ते । यू꣣थ्यः꣢ । वृ꣡षा꣢꣯ । नृ꣣म्णा꣢ । द꣡धा꣢꣯नः । ओ꣡ज꣢꣯सा ॥१२७१॥
स्वर रहित मन्त्र
एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३वृषा । नृम्णा दधान ओजसा ॥१२७१॥
स्वर रहित पद पाठ
एषः । शृङ्गाणि । दोधुवत् । शिशीते । यूथ्यः । वृषा । नृम्णा । दधानः । ओजसा ॥१२७१॥
सामवेद - मन्त्र संख्या : 1271
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment
विषयः - अथ वृषभवर्णनमुखेन देहधारिणं जीवात्मानं वर्णयति।
पदार्थः -
प्रथमः—वृषभपक्षे। (ओजसा) प्राबल्येन (नृम्णा) नृम्णानि बलानि। [नृम्णमिति बलनाम। निघं० २।९।] (दधानः) धारयन् (एषः) अयम् (यूथ्यः) यूथार्हः (वृषा) वृषभः (शृङ्गाणि) विषाणानि (दोधुवत्) कम्पयन् (शिशीते) पर्वतस्तम्भादौ तीक्ष्णीकरोति ॥ द्वितीयः—मनुष्यपक्षे। (ओजसा) बलेन (नृम्णा) नृम्णानि धनानि। [नृम्णमिति धननाम। निघं० २।१०।] (दधानः) अर्जयन् (एषः) अयम् (यूथ्यः) यूथार्हः, सामाजिकः (वृषा) अन्येषु सुखवर्षको मानवः (दोधुवत्) दोषान् कम्पयन् (शृङ्गाणि) चतुरः पुरुषार्थान् धर्मार्थकाममोक्षरूपान्। [चत्वारि शृङ्गा२ ऋ० ४।५८।३, य० १७।९१ इति वचनात्।] (शिशीते) अभ्यस्यति ॥६॥ अत्र श्लेषः, प्रथमेऽर्थे च स्वभावोक्तिरलङ्कारः ॥६॥
भावार्थः - यथा बलवान् वृषभः स्वभावानुसारं शिरः कम्पयन् स्वकीये शृङ्गे पर्वतादौ तीक्ष्णयति तथा बलवान् मानवो धर्मार्थकाममोक्षान् तीक्ष्णयेत् ॥६॥
टिप्पणीः -
१. ऋ० ९।१५।४। २. चत्वारो वेदा नामाख्यातोपसर्गनिपाता विश्वतैजसप्राज्ञतुरीय- धर्मार्थकाममोक्षाश्चेत्यादीनि शृङ्गाणि—इति ऋ० ४।५८।३ भाष्ये द०।