Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1270
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
ए꣣ष꣢ रु꣣क्मि꣡भि꣢रीयते वा꣣जी꣢ शु꣣भ्रे꣡भि꣢र꣣ꣳशु꣡भिः꣢ । प꣢तिः꣣ सि꣡न्धू꣢नां꣣ भ꣡व꣢न् ॥१२७०॥
स्वर सहित पद पाठए꣣षः꣢ । रु꣣क्मि꣡भिः꣣ । ई꣣यते । वाजी꣢ । शु꣣भ्रे꣡भिः꣢ । अ꣣ꣳशु꣡भिः꣢ । प꣡तिः꣢꣯ । सि꣡न्धू꣢꣯नाम् । भ꣡व꣢꣯न् ॥१२७०॥
स्वर रहित मन्त्र
एष रुक्मिभिरीयते वाजी शुभ्रेभिरꣳशुभिः । पतिः सिन्धूनां भवन् ॥१२७०॥
स्वर रहित पद पाठ
एषः । रुक्मिभिः । ईयते । वाजी । शुभ्रेभिः । अꣳशुभिः । पतिः । सिन्धूनाम् । भवन् ॥१२७०॥
सामवेद - मन्त्र संख्या : 1270
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
विषयः - अथ जीवात्मानं वर्णयति।
पदार्थः -
(वाजी) बलवान् (एषः) अयं सोमः जीवात्मा (सिन्धूनाम्) देहस्थानां रक्तवहानां नाडीनाम् (पतिः) स्वामी (भवन्) जायमानः सन् (रुक्मिभिः) तेजोमद्भिः। [रोचते इति रुक्मः, रुच दीप्तौ, युजिरुचितिजां कुश्च। उ० १।१४६ इति मक् प्रत्ययः, चकारस्य कुत्वं च।] (शुभ्रेभिः) स्वच्छैः (अंशुभिः) मनोबुद्धिप्राणेन्द्रियादिभिः (ईयते) व्यापारं करोति ॥५॥
भावार्थः - देहाधिष्ठात्रा जीवात्मना देहस्थानि मनोबुद्ध्यादीनि बाह्यानि च साधनानि प्रयुज्य सदैवोन्नतिः कार्या ॥५॥
टिप्पणीः -
१. ऋ० ९।१५।५।