Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1269
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
11
ए꣣ष꣢ हि꣣तो꣡ वि नी꣢꣯यते꣣ऽन्तः꣢ शु꣣न्ध्या꣡व꣢ता प꣣था꣢ । य꣡दी꣢ तु꣣ञ्ज꣢न्ति꣣ भू꣡र्ण꣢यः ॥१२६९॥
स्वर सहित पद पाठए꣣षः꣢ । हि꣣तः꣢ । वि । नी꣣यते । अन्त꣡रिति꣢ । शु꣣न्ध्या꣡व꣢ता । प꣣था꣢ । य꣡दि꣢꣯ । तु꣣ञ्ज꣡न्ति꣢ । भू꣡र्ण꣢꣯यः ॥१२६९॥
स्वर रहित मन्त्र
एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः ॥१२६९॥
स्वर रहित पद पाठ
एषः । हितः । वि । नीयते । अन्तरिति । शुन्ध्यावता । पथा । यदि । तुञ्जन्ति । भूर्णयः ॥१२६९॥
सामवेद - मन्त्र संख्या : 1269
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(यदि) चेत् (भूर्णयः२) ज्ञानादिभिः परिपूर्णाः जनाः। [बिभ्रति पुष्णन्ति स्वात्मानं ये ते भूर्णयः। बिभर्तेः ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः।’ उ० ४।५३’ इति नि प्रत्ययः।] (तुञ्जन्ति) परमेश्वराय आत्मानं समर्पयन्ति। [तुञ्जतिर्दानकर्मा। निघं० ३।२०।] तदा अनेन (शुन्ध्यावता पथा) शुद्धियुक्तेन मार्गेण। [शुन्ध शुद्धौ, भ्वादिः।] (अन्तः हितः) अन्तर्मुखीकृतः (एषः) अयं सोमः जीवात्मा (वि नीयते) विशेषेण मुक्तिं प्रति नीयते ॥४॥
भावार्थः - अहंकारं परित्यज्य परमात्मानं प्रति स्वात्मसमर्पणेन मोक्षमार्गः सरलीभवति ॥४॥
टिप्पणीः -
१. ऋ० ९।१५।३, ‘शु॒भ्राव॑ता प॒था’ इति पाठः। २. भूर्णयः भरणशीलाः—इति सा०। भ्रमणशीलाः—इति वि०।