Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1274
ऋषिः - राहूगण आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ए꣣ष꣢ उ꣣ स्य꣢꣫ वृषा꣣ र꣢꣫थोऽव्या꣣ वारे꣡भि꣢रव्यत । ग꣢च्छ꣣न्वा꣡ज꣢ꣳ सह꣣स्रि꣡ण꣢म् ॥१२७४॥
स्वर सहित पद पाठए꣣षः꣢ । उ꣣ । स्यः꣢ । वृ꣡षा꣢꣯ । र꣡थः꣢꣯ । अ꣡व्याः꣢꣯ । वा꣡रे꣢꣯भिः । अ꣣व्यत । ग꣡च्छ꣢꣯न् । वा꣡ज꣢꣯म् । स꣣हस्रि꣡ण꣢म् ॥१२७४॥
स्वर रहित मन्त्र
एष उ स्य वृषा रथोऽव्या वारेभिरव्यत । गच्छन्वाजꣳ सहस्रिणम् ॥१२७४॥
स्वर रहित पद पाठ
एषः । उ । स्यः । वृषा । रथः । अव्याः । वारेभिः । अव्यत । गच्छन् । वाजम् । सहस्रिणम् ॥१२७४॥
सामवेद - मन्त्र संख्या : 1274
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ जीवात्मविषय उच्यते।
पदार्थः -
(सहस्रिणम्) सहस्रैश्वर्योपेतम् (वाजम्) बलम् (गच्छन्) प्राप्नुवन् (एषः उ) अयं खलु (स्यः) सः (वृषा) सुखवर्षकः, (रथः) रंहणशीलः सोमः जीवात्मा। [रथो रंहतेर्गतिकर्मणः निरु० ९।११।] (अव्याः वारेभिः) रक्षिकाया जगन्मातुः दोषनिवारकैरुपायैः (अव्यत) रक्ष्यते। [अवतेः रक्षणार्थात् कर्मणि लङि रूपम्। आडागमाभावश्छान्दसः] ॥१॥
भावार्थः - जगदम्बाया उपासनेन मानवस्य दोषा अपगच्छन्ति सद्गुणाश्च तस्मिन् समायान्ति ॥१॥
टिप्पणीः -
१. ऋ० ९।३८।१, ‘रथोऽव्यो॒ वारे॑भिरर्षति’ इति पाठः।