Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1275
ऋषिः - राहूगण आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

ए꣣तं꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥१२७५॥

स्वर सहित पद पाठ

ए꣣त꣢म् । त्रि꣣त꣡स्य꣢ । यो꣡ष꣢꣯णः । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥१२७५॥


स्वर रहित मन्त्र

एतं त्रितस्य योषणो हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥१२७५॥


स्वर रहित पद पाठ

एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिभिः । अ । द्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥१२७५॥

सामवेद - मन्त्र संख्या : 1275
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(त्रितस्य) मेधया तीर्णतमस्य उपासकस्य। [त्रितस्तीर्णतमो मेधया। निरु० ४।६।] (योषणः) ध्यानवृत्तयः। [याः युवन्ति मेलयन्ति परमात्मानं जीवात्मना सह ताः योषणः। यु मिश्रणामिश्रणयोः, अदादिः।] (एतम्) इमम् (हरिम्) दोषहर्तारम् (इन्दुम्) रसनिधिं परमेश्वरम् (इन्द्राय पीतये) जीवात्मनः पानाय (अद्रिभिः) प्रणवजपादिरूपैः पाषाणैः (हिन्वन्ति) प्रेरयन्ति ॥२॥

भावार्थः - योगाभ्यासेन मनुष्यः परमात्मानं साक्षात्कर्त्तुं क्षमते ॥२॥

इस भाष्य को एडिट करें
Top