Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1276
ऋषिः - राहूगण आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
ए꣣ष꣡ स्य मानु꣢꣯षी꣣ष्वा꣢ श्ये꣣नो꣢꣫ न वि꣣क्षु꣡ सी꣢दति । ग꣡च्छ꣢ञ्जा꣣रो꣢꣫ न यो꣣षि꣡त꣢म् ॥१२७६॥
स्वर सहित पद पाठए꣣षः꣢ । स्यः । मा꣡नु꣢꣯षीषु । आ । श्ये꣣नः꣢ । न । वि꣣क्षु꣢ । सी꣣दति । ग꣡च्छ꣢꣯न् । जा꣣रः꣢ । न । यो꣣षि꣡त꣢म् ॥१२७६॥
स्वर रहित मन्त्र
एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । गच्छञ्जारो न योषितम् ॥१२७६॥
स्वर रहित पद पाठ
एषः । स्यः । मानुषीषु । आ । श्येनः । न । विक्षु । सीदति । गच्छन् । जारः । न । योषितम् ॥१२७६॥
सामवेद - मन्त्र संख्या : 1276
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 3; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मनोऽनुग्रहं प्रदर्शयति।
पदार्थः -
(योषितम्) जायां (गच्छन्) प्रेम्णा व्रजन् (जारः न) पतिः इव (गच्छन्) धार्मिकीं प्रजां प्रेम्णा व्रजन् (एषः स्यः) अयं सः सोमः रसागारः परमेश्वरः (श्येनः न) आदित्यः इव। [श्येन आदित्यो भवति, श्यायतेर्गतिकर्मणः। निरु० १४।१३।] (मानुषीषु विक्षु) मानवीषु प्रजासु (आ सीदति) आतिष्ठति ॥३॥ अत्रोपमालङ्कारः ॥३॥
भावार्थः - पतिर्यथा जायायां स्निह्यति तथा परमेश्वरो धार्मिक्यां प्रजायां स्निह्यति। यथा च दिवि तिष्ठन् सूर्यः सर्वाः प्रजा भौतिकप्रकाशप्रदानेनानुगृह्णाति तथैव परमेश्वरो दिव्यप्रकाशप्रदानेन ॥३॥
टिप्पणीः -
१. ऋ० ९।३८।४।