Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1286
ऋषिः - नृमेध आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ए꣣ष꣢ क꣣वि꣢र꣣भि꣡ष्टु꣢तः प꣣वि꣢त्रे꣣ अ꣡धि꣢ तोशते । पु꣣ना꣢꣫नो घ्नन्नप꣣ द्वि꣡षः꣢ ॥१२८६॥
स्वर सहित पद पाठए꣣षः꣢ । क꣣विः꣢ । अ꣣भि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । तो꣣शते । पुनानः꣢ । घ्नन् । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥१२८६॥
स्वर रहित मन्त्र
एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप द्विषः ॥१२८६॥
स्वर रहित पद पाठ
एषः । कविः । अभिष्टुतः । अभि । स्तुतः । पवित्रे । अधि । तोशते । पुनानः । घ्नन् । अप । द्विषः ॥१२८६॥
सामवेद - मन्त्र संख्या : 1286
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मविषयमाह।
पदार्थः -
(अभिष्टुतः) स्तुतिविषयीकृतः (कविः) मेधावी क्रान्तद्रष्टा (एषः) अयं सोमः परमेश्वरः (पुनानः) अन्तःकरणं पवित्रं कुर्वन्, (द्विषः) द्वेषवृत्तीः (अपघ्नन्) अपहिंसन् (पवित्रे अधि) पवित्रे अन्तःकरणे (तोशते२) दीप्यते ॥१॥
भावार्थः - मलिने दर्पणे यथा प्रतिबिम्बं न भासते तथैव मलिनेऽन्तरात्मनि परमेश्वरो न प्रकाशते ॥१॥
इस भाष्य को एडिट करें