Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1297
ऋषिः - राहूगण आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

स꣢ दे꣣वः꣢ क꣣वि꣡ने꣢षि꣣तो꣢३꣱ऽभि꣡ द्रोणा꣢꣯नि धावति । इ꣢न्दु꣣रि꣡न्द्रा꣢य म꣣ꣳह꣡य꣢न् ॥१२९७॥

स्वर सहित पद पाठ

सः꣢ । दे꣣वः꣢ । क꣣वि꣡ना꣢ । इ꣣षितः꣢ । अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । धा꣣वति । इ꣡न्दुः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣ꣳह꣡य꣢न् ॥१२९७॥


स्वर रहित मन्त्र

स देवः कविनेषितो३ऽभि द्रोणानि धावति । इन्दुरिन्द्राय मꣳहयन् ॥१२९७॥


स्वर रहित पद पाठ

सः । देवः । कविना । इषितः । अभि । द्रोणानि । धावति । इन्दुः । इन्द्राय । मꣳहयन् ॥१२९७॥

सामवेद - मन्त्र संख्या : 1297
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 6; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थः -
(कविना) मेधाविना गुरुणा (इषितः) प्रेरितः (सः) असौ (देवः) स्तोता। [दीव्यति स्तुतिकर्मा।] (इन्दुः) तेजस्वी जीवात्मा (इन्द्राय) परमात्मने (मंहयन्) आत्मानं समर्पयन्। [मंहते ददातिकर्मा। निघं० ३।२०। तत्र मंहयतिरपि पठितव्यः।] (द्रोणानि अभि) लक्ष्याणि प्रति (धावति) वेगेन गच्छति। [लक्ष्यसूचनार्थं यः काष्ठमयो यूपो निखन्यते तद् द्रोणमित्युच्यते] ॥६॥

भावार्थः - परमात्मानं प्रत्यात्मसमर्पणेन जीवात्मनि काचिद् विलक्षणा शक्तिरुत्पद्यते यया स सर्वान् विघ्नानपास्यन् लक्ष्यं प्राप्नोति ॥६॥ अस्मिन् खण्डे परमात्मजीवात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top