Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1315
ऋषिः - सप्तर्षयः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
5
प꣡रि꣢ स्वा꣣न꣡श्चक्ष꣢꣯से देव꣣मा꣡द꣢नः꣣ क्र꣢तु꣣रि꣡न्दु꣢र्विचक्ष꣣णः꣢ ॥१३१५
स्वर सहित पद पाठप꣡रि꣢꣯ । स्वा꣣नः꣢ । च꣡क्ष꣢꣯से । दे꣣वमा꣡द꣢नः । दे꣣व । मा꣡द꣢꣯नः । क्र꣡तुः꣢꣯ । इ꣡न्दुः꣢꣯ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥१३१५॥
स्वर रहित मन्त्र
परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥१३१५
स्वर रहित पद पाठ
परि । स्वानः । चक्षसे । देवमादनः । देव । मादनः । क्रतुः । इन्दुः । विचक्षणः । वि । चक्षणः ॥१३१५॥
सामवेद - मन्त्र संख्या : 1315
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 9; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मध्यानविषयमाह।
पदार्थः -
(देवमादनः) विदुषामानन्दयिता, (क्रतुः) कर्ममयः जगद्धारणकर्मणां कर्ता, (विचक्षणः) विशेषेण सर्वेषां द्रष्टा, (इन्दुः) तेजस्वी रसेन क्लेदकश्च परमेश्वरः (चक्षसे) दर्शनाय, साक्षात्काराय। [चष्टे पश्यतिकर्मा। निघं० ३।११। तुमर्थे असेन् प्रत्ययः।] (परि स्वानः) परिषूयमाणः, अस्माभिर्ध्यायमानः भवति ॥३॥
भावार्थः - परमात्मानं साक्षात्कृत्य वयं तद्वत् परेषामानन्दयितारः कर्मयोगिनो विवेकदृष्टिसम्पन्नास्तेजस्विनः परोपकारिणश्च भवेम ॥३॥
इस भाष्य को एडिट करें