Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1321
ऋषिः - भर्गः प्रागाथः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
6

य꣡त꣢ इन्द्र꣣ भ꣡या꣢महे꣣ त꣡तो꣢ नो꣣ अ꣡भ꣢यं कृधि । म꣡घ꣢वञ्छ꣣ग्धि꣢꣫ तव꣣ त꣡न्न꣢ ऊ꣣त꣢ये꣣ वि꣢꣫ द्विषो꣣ वि꣡ मृधो꣢꣯ जहि ॥१३२१॥

स्वर सहित पद पाठ

य꣡तः꣢꣯ । इ꣣न्द्र । भ꣡या꣢꣯महे । त꣡तः꣢꣯ । नः꣣ । अ꣡भ꣢꣯यम् । अ । भ꣣यम् । कृ꣡धि । मघ꣢꣯वन् । श꣣ग्धि꣢ । त꣡व꣢꣯ । तत् । नः꣣ । ऊत꣡ये꣢ । वि । द्वि꣡षः꣢꣯ । वि । मृ꣡धः꣢꣯ । ज꣣हि ॥१३२१॥


स्वर रहित मन्त्र

यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ॥१३२१॥


स्वर रहित पद पाठ

यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । अ । भयम् । कृधि । मघवन् । शग्धि । तव । तत् । नः । ऊतये । वि । द्विषः । वि । मृधः । जहि ॥१३२१॥

सामवेद - मन्त्र संख्या : 1321
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 10; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) परमैश्वर्यवन् जगदीश्वर विद्यैश्वर्ययुक्त आचार्यप्रवर वा ! वयम् (यतः) यस्माद् अज्ञानपापदुर्व्यसनचौरव्याघ्रादिकात् (भयामहे) त्रस्यामः (ततः) तस्मात् (नः) अस्माकम् (अभयम्) निर्भयत्वम् (कृधि) कुरु। हे (मघवन्) अभयत्वधनेन धनवन् ! (शग्धि) अस्मान् शक्तान् कुरु। (तव) त्वदीयम् (तत्) अभयदानम् (नः) अस्माकम् (ऊतये) रक्षणाय भवतु इति शेषः। त्वम् (द्विषः) द्वेषवृत्तीः द्वेषकर्तॄन् पापादीन् वा (वि) विजहि, (मृधः) हिंसावृत्तीः संग्रामकारिणः कामक्रोधादीन् वा (वि जहि) विनाशय ॥१॥

भावार्थः - यथा जगदीश्वरः स्वोपासकान् निर्भयान् करोति तथैवाचार्यो विद्याध्यापनेन साकं निर्भयतादिगुणानपि विद्यार्थिषूत्पादयेत् ॥१॥

इस भाष्य को एडिट करें
Top