Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1326
ऋषिः - मनुराप्सवः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
प꣡व꣢स्व दे꣣व꣡वी꣢तय꣣ इ꣢न्दो꣣ धा꣡रा꣢भि꣣रो꣡ज꣢सा । आ꣢ क꣣ल꣢शं꣣ म꣡धु꣢मान्त्सोम नः सदः ॥१३२६॥
स्वर सहित पद पाठप꣡व꣢꣯स्व । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये । इ꣡न्दो꣢꣯ । धा꣡रा꣢꣯भिः । ओ꣡ज꣢꣯सा । आ । क꣣ल꣡श꣢म् । म꣡धु꣢꣯मान् । सो꣣म । नः । सदः ॥१३२६॥
स्वर रहित मन्त्र
पवस्व देववीतय इन्दो धाराभिरोजसा । आ कलशं मधुमान्त्सोम नः सदः ॥१३२६॥
स्वर रहित पद पाठ
पवस्व । देववीतये । देव । वीतये । इन्दो । धाराभिः । ओजसा । आ । कलशम् । मधुमान् । सोम । नः । सदः ॥१३२६॥
सामवेद - मन्त्र संख्या : 1326
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५७१ क्रमाङ्के ब्रह्मानन्दरसविषये व्याख्याता। अत्रापि स एव विषयो वर्ण्यते।
पदार्थः -
हे (इन्दो) रसेन आर्द्रीकर्तः परमेश ! त्वम् (देववीतये) दिव्यगुणानां प्राप्तये (धाराभिः) आनन्दधाराभिः (ओजसा) वेगेन (पवस्व) अस्मदन्तःकरणे प्रक्षर। हे (सोम) रसागार ! (मधुमान्) मधुमयः त्वम् (नः) अस्माकम् (कलशम्) जीवात्मरूपम् (आ सदः) आसीद। [सदेर्विध्यर्थे लुङि रूपम्] ॥१॥
भावार्थः - परमात्मध्यानमग्ना योगिनः परमात्मनः सकाशात् स्वमनोभूमौ निर्झरन्तमानन्दरसनिर्झरं साक्षादनुभवन्ति ॥१॥
इस भाष्य को एडिट करें