Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1327
ऋषिः - मनुराप्सवः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
त꣡व꣢ द्र꣣प्सा꣡ उ꣢द꣣प्रु꣢त꣣ इ꣢न्द्रं꣣ म꣡दा꣢य वावृधुः । त्वां꣢ दे꣣वा꣡सो꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥१३२७॥
स्वर सहित पद पाठत꣡व꣢꣯ । द्र꣣प्साः꣢ । उ꣣दप्रु꣡तः꣢ । उ꣣द । प्रु꣡तः꣢꣯ । इ꣡न्द्र꣢꣯म् । म꣡दा꣢꣯य । वा꣣वृधुः । त्वा꣢म् । दे꣣वा꣡सः꣢ । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । कम् । प꣣पुः ॥१३२७॥
स्वर रहित मन्त्र
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥१३२७॥
स्वर रहित पद पाठ
तव । द्रप्साः । उदप्रुतः । उद । प्रुतः । इन्द्रम् । मदाय । वावृधुः । त्वाम् । देवासः । अमृताय । अ । मृताय । कम् । पपुः ॥१३२७॥
सामवेद - मन्त्र संख्या : 1327
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः परमात्मन आनन्दरसान् वर्णयति।
पदार्थः -
हे सोम ! हे रसागार परमेश ! (तव) त्वदीयाः (द्रप्साः) द्रुतगामिनः आनन्दरसाः (उदप्रुतः) अन्तःकरणे तरङ्गोत्थापकाः भवन्ति। [उदकानि तरङ्गान् प्रवयन्ति उत्थापयन्तीति उदप्रुतः। प्रुङ् गतौ ण्यन्तः। उदकस्य उदादेशः।] ते (इन्द्रम्) जीवात्मानम् (मदाय) तृप्तिलाभाय (वावृधुः) वर्धयन्ति। (देवासः) विद्वांसः (कम्) कमनीयं सर्वातिक्रान्तं सुखस्वरूपं च [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२३।] (त्वाम्) त्वा (अमृताय) अमरपदप्राप्तये (पपुः) पिबन्ति, आस्वदन्ते ॥२॥
भावार्थः - परमेश्वररूपाद्धिमालयान्निःसृतायामानन्दरसतरङ्गिण्यामेव स्नात्वा योगिनो जना मोक्षपदाधिकारिणो जायन्ते न तु भौतिकीषु गङ्गायमुनासरस्वत्यादिषु नदीषु स्नात्वा ॥२॥
इस भाष्य को एडिट करें