Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1328
ऋषिः - मनुराप्सवः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥

स्वर सहित पद पाठ

आ꣢ । नः꣣ । सुतासः । इन्दवः । पुनानाः꣢ । धा꣣वत । रयि꣢म् । वृ꣣ष्टि꣡द्या꣢वः । वृ꣣ष्टि꣢ । द्या꣣वः । रीत्यापः । रीति । आपः । स्वर्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥१३२८॥


स्वर रहित मन्त्र

आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥


स्वर रहित पद पाठ

आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् । वृष्टिद्यावः । वृष्टि । द्यावः । रीत्यापः । रीति । आपः । स्वर्विदः । स्वः । विदः ॥१३२८॥

सामवेद - मन्त्र संख्या : 1328
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सुतासः) अभिषुताः (इन्दवः) ब्रह्मानन्दरसाः ! (पुनानाः) पावयन्तः यूयम् (नः) अस्मभ्यम् (रयिम्) सद्गुणैश्वर्यम् (आ धावत) आगमयत। हे (रीत्यापः) द्रुतप्रवाहाः ब्रह्मानन्दाः। [रीतयः गमनशीलाः आपः प्रवाहाः येषां ते रीत्यापः, री गतिरेषणयोः, क्र्यादिः, कर्तरि क्तिन्।] यूयम्, (वृष्टिद्यावः) वृष्टिः विज्ञानवर्षणकरी द्यौः मस्तिष्कभूमिः यैस्तथाविधाः, मस्तिष्काद् विज्ञानवृष्टिं कुर्वाणाः इत्यर्थः, (स्वर्विदः) दिव्यप्रकाशलम्भकाश्च, स्थ इति शेषः ॥३॥

भावार्थः - ब्रह्मानन्देनान्तरात्मनि प्रकाशिते पवित्रीकृते च मस्तिष्कभूमिरप्युर्वरा सती विविधज्ञानविज्ञानादिकं जनयन्ती योगिनमुपकरोति ॥३॥

इस भाष्य को एडिट करें
Top