Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1337
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

अ꣡र्षा꣢ नः सोम꣣ शं꣡ गवे꣢꣯ धु꣣क्ष꣡स्व꣢ पि꣣प्यु꣢षी꣣मि꣡ष꣢म् । व꣡र्धा꣢ स꣣मु꣡द्र꣢मुक्थ्य ॥१३३७॥

स्वर सहित पद पाठ

अ꣡र्ष꣢꣯ । नः꣣ । सोम । श꣢म् । ग꣡वे꣢꣯ । धु꣣क्ष꣡स्व꣢ । पि꣣प्यु꣡षी꣢म् । इ꣡ष꣢꣯म् । व꣡र्ध꣢꣯ । स꣡मुद्र꣢म् । स꣣म् । उ꣢द्रम् । उ꣣क्थ्य ॥१३३७॥


स्वर रहित मन्त्र

अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । वर्धा समुद्रमुक्थ्य ॥१३३७॥


स्वर रहित पद पाठ

अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् । वर्ध । समुद्रम् । सम् । उद्रम् । उक्थ्य ॥१३३७॥

सामवेद - मन्त्र संख्या : 1337
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) जगत्स्रष्टः शान्तिप्रिय परमात्मन् ! त्वम् (नः) अस्माकम् (गवे) सम्पूर्णधरित्र्यै (शम्) सुखं शान्तिं च (अर्ष) प्रापय, अस्मभ्यम् (पिप्युषीम्) समृद्धाम् [ओप्यायी वृद्धौ, लिटः क्वसौ रूपम्।] (इषम्) अभीष्टां सम्पत्तिम् (धुक्ष्व) प्रदेहि। हे (उक्थ्य) स्तुत्यर्ह ! (समुद्रम्) सद्गुणानां सागरं जीवात्मानम् यद्वा, तत्र विद्यमानम् आनन्दस्य सागरम् (वर्ध) वर्धय। यथा सोमेन चन्द्रमसाऽपां राशिः समुद्रो वर्ध्यते इति ध्वन्यते ॥३॥

भावार्थः - परमात्मकृपया मानवानां प्रयासेन च सकलापि धरा सुखं शान्तिं प्रचुरां सम्पदं च प्राप्नुयात्, तन्निवासिनश्च परस्परं प्रेम्णा व्यवहरेयुः ॥३॥ अस्मिन् खण्डे परमात्मनो ब्रह्मानन्दस्य गुरुशिष्ययोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥

इस भाष्य को एडिट करें
Top