Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1341
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
7
य꣢꣫ एक꣣ इ꣢द्वि꣣द꣡य꣢ते꣣ व꣢सु꣣ म꣡र्ता꣢य दा꣣शु꣡षे꣢ । ई꣡शा꣢नो꣣ अ꣡प्र꣢तिष्कुत꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४१॥
स्वर सहित पद पाठयः꣢ । ए꣡कः꣢꣯ । इत् । वि꣣द꣢य꣢ते । वि꣣ । द꣡य꣢ते । व꣡सु꣢꣯ । म꣡र्ता꣢꣯य । दा꣣शु꣡षे꣢ । ई꣡शा꣢꣯नः । अ꣡प्र꣢꣯तिष्कुतः । अ । प्र꣣तिष्कुतः । इ꣡न्द्रः꣢ । अ꣣ङ्ग꣢ ॥१३४१॥
स्वर रहित मन्त्र
य एक इद्विदयते वसु मर्ताय दाशुषे । ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥१३४१॥
स्वर रहित पद पाठ
यः । एकः । इत् । विदयते । वि । दयते । वसु । मर्ताय । दाशुषे । ईशानः । अप्रतिष्कुतः । अ । प्रतिष्कुतः । इन्द्रः । अङ्ग ॥१३४१॥
सामवेद - मन्त्र संख्या : 1341
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३८९ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र परमात्मनृपत्योर्विषयो वर्ण्यते।
पदार्थः -
प्रथमः—परमात्मपरः। (यः एकः इत्) यः एक एव वर्तते, किञ्च (दाशुषे) आत्मसमर्पकाय (मर्ताय) मनुष्याय (वसु) सद्गुणकर्मस्वभावरूपम् ऐश्वर्यम् (विदयते) विशेषेण ददाति, (अङ्ग) हे भद्र ! सः (ईशानः) सर्वेषां शासकः (अप्रतिष्कुतः) केनापि अप्रतिकृतः, (इन्द्रः) इन्द्रनामकः परमेश्वरोऽस्ति ॥ द्वितीयः—नृपतिपरः। (यः एकः इत्) यः एकः एव, सर्वान् शत्रून् (विदयते) विनाशयति। [दय दानगतिरक्षणहिंसादानेषु, भ्वादिः।], अपि च (दाशुषे) करप्रदात्रे (मर्ताय) प्रजाजनाय (वसु) ऐश्वर्यम् (विदयते) प्रयच्छति, यश्च (ईशानः) शासनक्षमः (अप्रतिष्कुतः) अप्रतिस्खलितश्च अस्ति, हे (अङ्ग) भद्र ! स एव (इन्द्रः) राजा कर्तव्यः ॥१॥२ अत्र श्लेषालङ्कारः ॥१॥
भावार्थः - पाषाणादिमूर्तिः खलु परमेश्वरो नास्ति, प्रत्युत य एको निराकारः स्तोतृभ्य ऐश्वर्यप्रदाता सर्वाधीश्वरोऽस्ति स एव परमेश्वरसंज्ञया व्यपदिश्यते। तथैव प्रजाभिः स एव नरः नृपत्वेन वरणीयो य एकोऽपि बहून् रिपून् पराजयेत् स्वप्रजा रञ्जयेच्च ॥१॥
इस भाष्य को एडिट करें