Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1355
ऋषिः - प्रगाथः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प꣣दा꣢ प꣣णी꣡न꣢रा꣣ध꣢सो꣣ नि꣡ बा꣢धस्व म꣣हा꣡ꣳ अ꣢सि । न꣢꣫ हि त्वा꣣ क꣢श्च꣣ न꣡ प्रति꣢꣯ ॥१३५५॥

स्वर सहित पद पाठ

पदा꣢ । प꣣णी꣢न् । अ꣣राध꣡सः꣢ । अ꣣ । राध꣡सः꣢ । नि । बा꣣धस्व । महा꣢न् । अ꣣सि । न꣢ । हि । त्वा꣣ । कः꣢ । च꣣ । न꣢ । प्र꣡ति꣢꣯ ॥१३५५॥


स्वर रहित मन्त्र

पदा पणीनराधसो नि बाधस्व महाꣳ असि । न हि त्वा कश्च न प्रति ॥१३५५॥


स्वर रहित पद पाठ

पदा । पणीन् । अराधसः । अ । राधसः । नि । बाधस्व । महान् । असि । न । हि । त्वा । कः । च । न । प्रति ॥१३५५॥

सामवेद - मन्त्र संख्या : 1355
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे इन्द्र जीवात्मन् ! त्वम् (अराधसः) परकार्याऽसाधकान् (पणीन्) स्वार्थभावान् (पदा) पादाघातेन इव (नि बाधस्व) दूरं प्रक्षिप, त्वम् (महान्) महिमोपेतः (असि) विद्यसे। (त्वा) त्वाम् (कश्चन) कोऽपि (प्रति नहि) प्रतिरोद्धुं न शक्नोति ॥२॥ अत्र पदा पादेन इव इति लुप्तोपमालङ्कारः ॥२॥

भावार्थः - यथा कश्चित् पादाघातेन मार्गप्रतिबन्धकमपसारयति तथैव जीवात्मना विघ्नभूता आभ्यन्तराः शत्रवोऽपनेयाः ॥२॥

इस भाष्य को एडिट करें
Top