Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1363
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

क꣡ण्वा꣢ इव꣣ भृ꣡ग꣢वः꣣ सू꣡र्या꣢ इव꣣ वि꣢श्व꣣मि꣢द्धी꣣त꣡मा꣢शत । इ꣢न्द्र꣣ꣳ स्तो꣡मे꣢भिर्म꣣ह꣡य꣢न्त आ꣣य꣡वः꣢ प्रि꣣य꣡मे꣢धासो अस्वरन् ॥१३६३॥

स्वर सहित पद पाठ

क꣡ण्वाः꣢꣯ । इ꣣व । भृ꣡गवः꣢꣯ । सू꣡र्याः꣢꣯ । इ꣣व । वि꣡श्व꣢꣯म् । इत् । धी꣣त꣢म् । आ꣣शत । इ꣡न्द्र꣢꣯म् । स्तो꣡मे꣢꣯भिः । म꣣ह꣡य꣢न्तः । आ꣣य꣡वः꣢ । प्रि꣣य꣡मे꣢धासः । प्रि꣣य꣢ । मे꣣धासः । अस्वरन् ॥१३६३॥


स्वर रहित मन्त्र

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत । इन्द्रꣳ स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१३६३॥


स्वर रहित पद पाठ

कण्वाः । इव । भृगवः । सूर्याः । इव । विश्वम् । इत् । धीतम् । आशत । इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियमेधासः । प्रिय । मेधासः । अस्वरन् ॥१३६३॥

सामवेद - मन्त्र संख्या : 1363
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(प्रियमेधासः) प्रियप्रज्ञाः। [प्रियमेधः प्रिया अस्य मेधा। निरु० ३।१७।] (आयवः) मनुष्याः (इन्द्रम्) परमेश्वरम् (महयन्तः) पूजयन्तः (स्तोमेभिः) सामस्तोत्रैः (अस्वरन्) स्तुवन्ति। [स्वृ शब्दोपतापयोः, भ्वादिः।] ततश्च (कण्वाः इव) मेधाविनो ब्रह्मवर्चस्विनो ब्राह्मणाः इव, (सूर्याः इव) आदित्याः इव च (भृगवः२) तेजस्विनः सन्तः। [भ्रस्ज पाके। प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८ इत्यनेन कुः प्रत्ययः सम्प्रसारणं सलोपश्च।] (विश्वम् इत्) सर्वमेव (धीतम्) आध्यातम्, अभीष्टम् (आशत) प्राप्नुवन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थः - परमात्मोपासकास्तेजस्वितामात्मविश्वासं च प्राप्य पुरुषार्थं कुर्वाणाः सर्वं समीहितं लभन्ते ॥२॥

इस भाष्य को एडिट करें
Top