Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1368
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम -
2
ए꣣वा꣡मृता꣢꣯य म꣣हे꣡ क्षया꣢꣯य꣣ स꣢ शु꣣क्रो꣡ अ꣢र्ष दि꣣व्यः꣢ पी꣣यू꣡षः꣢ ॥१३६८॥
स्वर सहित पद पाठए꣣व꣢ । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । म꣣हे꣢ । क्ष꣡या꣢꣯य । सः । शु꣣क्रः꣢ । अ꣣र्ष । दिव्यः꣢ । पी꣣यू꣡षः꣢ ॥१३६८॥
स्वर रहित मन्त्र
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥१३६८॥
स्वर रहित पद पाठ
एव । अमृताय । अ । मृताय । महे । क्षयाय । सः । शुक्रः । अर्ष । दिव्यः । पीयूषः ॥१३६८॥
सामवेद - मन्त्र संख्या : 1368
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 5; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 5; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनर्ब्रह्मानन्दविषयमाह।
पदार्थः -
हे सोम ! हे ब्रह्मानन्द ! (सः) असौ (शुक्रः) पवित्रः, (दिव्यः) अलौकिकः (पीयूषः) पातुं योग्यः। [अत्र पीङ् पाने धातोः ‘पीयेरूषन्’ उ० ४।७७। इति ऊषन् प्रत्ययः।] त्वम् (एव) सत्यम् (अमृताय) अस्माकम् अमरपदलाभाय (महे) महते (क्षयाय) निवासकाय धर्मार्थकामलाभाय च (अर्ष) प्रस्रव ॥२॥
भावार्थः - ब्रह्मानन्दरसपानेन मनुष्यो धर्मार्थकाममोक्षान् साद्धुं क्षमते ॥२॥
इस भाष्य को एडिट करें