Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1381
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

स꣢ नो꣣ वे꣡दो꣢ अ꣣मा꣡त्य꣢म꣣ग्नी꣡ र꣢क्षतु꣣ श꣡न्त꣢मः । उ꣣ता꣢꣫स्मान्पा꣣त्व꣡ꣳह꣢सः ॥१३८१॥

स्वर सहित पद पाठ

सः । नः꣣ । वे꣡दः꣢꣯ । अ꣣मा꣡त्य꣢म् । अ꣣ग्निः꣢ । र꣣क्षतु । श꣡न्त꣢꣯मः । उ꣣त꣢ । अ꣣स्मा꣢न् । पा꣣तु । अ꣡ꣳह꣢꣯सः ॥१३८१॥


स्वर रहित मन्त्र

स नो वेदो अमात्यमग्नी रक्षतु शन्तमः । उतास्मान्पात्वꣳहसः ॥१३८१॥


स्वर रहित पद पाठ

सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । शन्तमः । उत । अस्मान् । पातु । अꣳहसः ॥१३८१॥

सामवेद - मन्त्र संख्या : 1381
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(सः) असौ (शन्तमः) शंकरतमः (अग्निः) अग्रनायकः परमेश्वरः (नः) अस्माकम् (अमात्यम्२) सहभूतम्। [अमा इत्यव्ययं सहार्थवाचकम्, ततः ‘अव्ययात् त्यप्।’ अ० ४।२।१०४ इति त्यप् प्रत्ययः।] (वेदः) ज्ञानं दिव्यं धनं वा (रक्षतु) पालयतु। (उत) अपि च (अंहसः) पापात् (नः) अस्मान् (पातु) त्रायताम् ॥३॥३

भावार्थः - परमात्मनि विश्वासाद् दिव्यगुणा रक्ष्यन्ते पापानि च विद्राव्यन्ते ॥३॥

इस भाष्य को एडिट करें
Top