Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1392
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
10
आ꣢ त्वा꣣ र꣡थे꣢ हिर꣣ण्य꣢ये꣣ ह꣡री꣢ म꣣यू꣡र꣢शेप्या । शि꣣तिपृष्ठा꣡ व꣢हतां꣣ म꣢ध्वो꣣ अ꣡न्ध꣢सो वि꣣व꣡क्ष꣢णस्य पी꣣त꣡ये꣢ ॥१३९२॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । र꣡थे꣢꣯ । हि꣣रण्य꣡ये꣢ । हरी꣢꣯इ꣡ति꣢ । म꣣यू꣡र꣢शेप्या । म꣣यू꣡र꣢ । शे꣣प्या । शितिपृष्ठा꣢ । शि꣣ति । पृष्ठा꣢ । व꣣हताम् । म꣡ध्वः꣢꣯ । अ꣡न्ध꣢꣯सः । वि꣣व꣡क्ष꣢णस्य । पी꣣त꣡ये꣢ ॥१३९२॥
स्वर रहित मन्त्र
आ त्वा रथे हिरण्यये हरी मयूरशेप्या । शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥१३९२॥
स्वर रहित पद पाठ
आ । त्वा । रथे । हिरण्यये । हरीइति । मयूरशेप्या । मयूर । शेप्या । शितिपृष्ठा । शिति । पृष्ठा । वहताम् । मध्वः । अन्धसः । विवक्षणस्य । पीतये ॥१३९२॥
सामवेद - मन्त्र संख्या : 1392
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथोपासकः सम्बोध्यते।
पदार्थः -
हे उपासक ! (हिरण्यये) सुवर्णवज्ज्योतिर्मये (रथे) स्यन्दने (मयूरशेप्या) मयूरशेप्यौ मयूरवर्णौ, हरिताभकृष्णवर्णौ इत्यर्थः (शितिपृष्ठा) शितिपृष्ठौ श्वेतपृष्ठौ (हरी) प्रशस्तौ अश्वौ (त्वा) त्वाम् (विवक्षणस्य) जगद्भारवोढुः इन्द्रस्य जगदीश्वरस्य। [अहेः सन्नन्तस्य कर्तरि ल्युटि रूपम्।] (मध्वः) मधुरस्य (अन्धसः) आनन्दरसस्य (पीतये) पानाय (आ वहताम्) सार्वजनिकम् उपासनागृहं प्रापयताम् ॥२॥
भावार्थः - उपासकजनाः रथे श्रेष्ठौ तुरगौ नियुज्योपासनागृहं गत्वा परमेश्वरमुपास्यानन्दं प्राप्नुवन्तु ॥२॥
इस भाष्य को एडिट करें