Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1391
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
6
आ꣡ त्वा꣢ स꣣ह꣢स्र꣣मा꣢ श꣣तं꣢ यु꣣क्ता꣡ रथे꣢꣯ हिर꣣ण्य꣡ये꣢ । ब्र꣣ह्म꣢युजो꣣ ह꣡र꣢य इन्द्र के꣣शि꣢नो꣣ व꣡ह꣢न्तु꣣ सो꣡म꣢पीतये ॥१३९१॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । सह꣡स्र꣢म् । आ । शत꣣म्꣢ । यु꣣क्ताः꣢ । र꣡थे꣢꣯ । हि꣣रण्य꣡ये꣢ । ब्र꣣ह्मयु꣡जः꣢ । ब्र꣣ह्म । यु꣡जः꣢꣯ । ह꣡र꣢꣯यः । इ꣣न्द्र । केशि꣡नः꣢꣯ । व꣡ह꣢꣯न्तु । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१३९१॥
स्वर रहित मन्त्र
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये । ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥१३९१॥
स्वर रहित पद पाठ
आ । त्वा । सहस्रम् । आ । शतम् । युक्ताः । रथे । हिरण्यये । ब्रह्मयुजः । ब्रह्म । युजः । हरयः । इन्द्र । केशिनः । वहन्तु । सोमपीतये । सोम । पीतये ॥१३९१॥
सामवेद - मन्त्र संख्या : 1391
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २४५ क्रमाङ्केऽध्यात्मपरत्वेन राष्ट्रपरत्वेन च व्याख्याता। अत्र सूर्यवर्णनमुखेन परमात्ममहिमा प्रकाश्यते।
पदार्थः -
हे (इन्द्र) जगदीश्वर ! (हिरण्यये) ज्योतिर्मये (रथे) रंहणशीले आदित्यमण्डले (युक्ताः) नियुक्ताः, (ब्रह्मयुजः) ब्रह्मभिः महद्भिः ग्रहोपग्रहैः युज्यन्ते इति तादृशाः, (केशिनः) प्रकाशमयाः प्रकाशकाश्च, (सहस्रम्) सहस्रसंख्यकाः (हरयः) हरणशीलाः रश्मयः। [युक्ता ह्यस्य हरयः शता दश (ऋ० ६।४७।१८) इति सहस्रं हैत आदित्यस्य रश्मयः। तेऽस्य युक्ताः, तैरिदं सर्वं हरति। तद् यदेतैरिदं सर्वं हरति तस्माद्धरयः। जै० उ० ब्रा० १।४४।५।] (सोमपीतये) परमानन्दरसस्य पानाय (त्वा) त्वाम् (आवहन्तु) अस्मदन्तिके प्रापयन्तु, (शतं सहस्रम्२) शतसहस्रसंख्यकाः हरयः रश्मयः त्वाम् (आ) आवहन्तु अस्मदन्तिके प्रापयन्तु। सूर्यस्तत्किरणाश्चावलोकयितॄणां पुरतः परमात्मन एव महिमानं प्रकाशयन्तीत्येतदभिप्रायेणेदम् उक्तम् ॥१॥
भावार्थः - अग्निवाय्वादित्यनक्षत्रपर्जन्यसरित्सागरादिषु विद्यमानां विभूतिं दृष्ट्वा तन्निर्मातरि जगदीश्वरे श्रद्धां कृत्वा विद्वांसस्तदुपासनेन परमानन्दमनुभवन्ति ॥१॥
इस भाष्य को एडिट करें