Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1390
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
8
न꣡ की꣢ रे꣣व꣡न्त꣢ꣳ स꣣ख्या꣡य꣢ विन्दसे꣣ पी꣡य꣢न्ति ते सुरा꣣꣬श्वः꣢꣯ । य꣣दा꣢ कृ꣣णो꣡षि꣢ नद꣣नु꣡ꣳ समू꣢꣯ह꣣स्या꣢꣫दित्पि꣣ते꣡व꣢ हूयसे ॥१३९०॥
स्वर सहित पद पाठन꣢ । किः꣣ । रेव꣡न्त꣢म् । स꣣ख्या꣡य꣢ । स꣣ । ख्या꣡य꣢꣯ । वि꣣न्दसे । पी꣡य꣢꣯न्ति । ते꣣ । सुराश्वः꣢ । य꣣दा꣢ । कृ꣣णो꣡षि꣢ । न꣣दनु꣢म् । सम् । ऊह꣣सि । आ꣢त् । इत् । पि꣣ता꣢ । इ꣣व । हूयसे ॥१३९०॥
स्वर रहित मन्त्र
न की रेवन्तꣳ सख्याय विन्दसे पीयन्ति ते सुराश्वः । यदा कृणोषि नदनुꣳ समूहस्यादित्पितेव हूयसे ॥१३९०॥
स्वर रहित पद पाठ
न । किः । रेवन्तम् । सख्याय । स । ख्याय । विन्दसे । पीयन्ति । ते । सुराश्वः । यदा । कृणोषि । नदनुम् । सम् । ऊहसि । आत् । इत् । पिता । इव । हूयसे ॥१३९०॥
सामवेद - मन्त्र संख्या : 1390
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मानं सम्बोधयति।
पदार्थः -
हे इन्द्र ! हे सर्वान्तर्यामिन् जगदीश्वर ! त्वम् रेवन्तम् केवलधनवन्तं दानपरोपकारादिरहितं जनम् (सख्याय) सखिभावाय (न किः) न कदापि (विन्दसे) प्राप्नोषि, (ते) केवलधनवन्तो जनाः (सुराश्वः) सुरापानेन प्रमत्ताः इव धनमदप्रमत्ताः सन्तः। [सुरया श्वयति वर्द्धते प्रमत्तो भवति यः स सुराशूः, ते सुराश्वः।] (पीयन्ति) हिंसन्ति दीनान् जनान् पीडयन्ति। [पीयतिः हिंसाकर्मा। निरु० ४।२५।] (यदा) यस्मिन् काले, त्वम् धनवन्तं जनम् (नदनुम्) स्तोतारम् (कृणोषि) करोषि, तदा (समूहसि) संवहसि, शोभनां स्थितिं प्रापयसि, (आत् इत्) तदनन्तरमेव, तेन त्वम् (पिता इव) जनक इव (हूयसे) स्तूयसे ॥२॥ अत्रोपमालङ्कारः ॥२॥
भावार्थः - धनं प्राप्य ये जना ऐश्वर्यमदमत्ता नास्तिकाः सन्तो न सत्पात्रेषु धनदानं कुर्वन्ति, न धर्माचारं सेवन्ते, न परमेश्वरमुपासते तेषां धनं धनं न प्रत्युत तत्कृते मृत्युरेव ॥२॥
इस भाष्य को एडिट करें