Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1389
ऋषिः - सौभरि: काण्व:
देवता - इन्द्रः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - ऋषभः
काण्ड नाम -
4
अ꣣भ्रातृव्यो꣢ अ꣣ना꣡ त्वमना꣢꣯पिरिन्द्र ज꣣नु꣡षा꣢ स꣣ना꣡द꣢सि । यु꣣धे꣡दा꣢पि꣣त्व꣡मि꣢च्छसे ॥१३८९॥
स्वर सहित पद पाठअ꣣भ्रातृव्यः꣢ । अ꣣ । भ्रातृव्यः꣢ । अ꣣ना꣢ । त्वम् । अ꣡ना꣢꣯पिः । अन् । आ꣣पिः । इन्द्र । जनु꣡षा꣢ । स꣣ना꣢त् । अ꣣सि । युधा꣢ । इत् । आ꣣पित्व꣢म् । इ꣣च्छसे ॥१३८९॥
स्वर रहित मन्त्र
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥१३८९॥
स्वर रहित पद पाठ
अभ्रातृव्यः । अ । भ्रातृव्यः । अना । त्वम् । अनापिः । अन् । आपिः । इन्द्र । जनुषा । सनात् । असि । युधा । इत् । आपित्वम् । इच्छसे ॥१३८९॥
सामवेद - मन्त्र संख्या : 1389
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३९९ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।
पदार्थः -
हे (इन्द्र) जीवात्मन् ! त्वम् (सनात्) सदा (जनुषा) जन्मना (अभ्रातृव्यः) अशत्रुः, (अना) अनेतृकः, (अनापिः) अबन्धुश्च (असि) वर्तसे। (युधा इत्) युद्धेनैव (आपित्वम्) बन्धुत्वं शत्रुत्वं वा (इच्छसे) अभिलषसि ॥१॥
भावार्थः - यदा शिशुर्मातुर्गर्भादुत्पद्यते तदा न तस्य कोऽपि शत्रुर्न मित्रं न नेता नापि च बन्धुर्भवति। वृद्धिं गतः सन् सांसारिकवासनाभिर्वासितः स युद्धादिना कमपि शत्रुं कमपि नेतारं कमपि च बन्धुं करोति। युद्धविद्वेषादिकं परित्यज्य तेन सर्वैः सह मैत्रीं कृत्वा परस्परं शान्त्या वर्तनीयम् ॥१॥
इस भाष्य को एडिट करें