Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1388
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
5

स꣢ वी꣣रो꣡ द꣢क्ष꣣सा꣡ध꣢नो꣣ वि꣢꣫ यस्त꣣स्त꣢म्भ꣣ रो꣡द꣢सी । ह꣡रिः꣢ प꣣वि꣡त्रे꣢ अव्यत वे꣣धा꣡ न योनि꣢꣯मा꣣स꣡द꣢म् ॥१३८८॥

स्वर सहित पद पाठ

सः । वी꣣रः꣢ । द꣣क्षसा꣡ध꣢नः । द꣣क्ष । सा꣡ध꣢꣯नः । वि । यः । त꣣स्त꣡म्भ꣢ । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣व्यत । वेधाः꣢ । न । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥१३८८॥


स्वर रहित मन्त्र

स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥१३८८॥


स्वर रहित पद पाठ

सः । वीरः । दक्षसाधनः । दक्ष । साधनः । वि । यः । तस्तम्भ । रोदसीइति । हरिः । पवित्रे । अव्यत । वेधाः । न । योनिम् । आसदम् । आ । सदम् ॥१३८८॥

सामवेद - मन्त्र संख्या : 1388
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
(सः) असौ (वीरः) कामक्रोधादिशत्रुप्रकम्पकः शूरः सोमः परमेश्वरः। [वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणः, वीरयतेर्वा। निरु० १।६।] (दक्षसाधनः) बलसाधनो वर्तते, (यः रोदसी) द्यावापृथिव्यौ (तस्तम्भ) धारयति। (वेधाः न) सूर्य इव सः (हरिः) पापहर्ता सोमः परमेश्वरः (योनिम्) आत्मरूपं गृहम् (आसदम्) आसत्तुम् (पवित्रे) परिपूतेऽन्तःकरणे (अव्यत) आगच्छति ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थः - यो बलवान् जगदीश्वरः सर्वं जगद्धारयति तस्योपासनेन सीमितशक्तिरपि मानवो महाशक्तिः शत्रुपराजयसमर्थश्च जायते ॥३॥

इस भाष्य को एडिट करें
Top