Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1404
ऋषिः - तिरश्चीराङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
15
इ꣡न्द्र꣢ शु꣣द्धो꣡ हि नो꣢꣯ र꣣यि꣢ꣳ शु꣣द्धो꣡ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ । शु꣣द्धो꣢ वृ꣣त्रा꣡णि꣢ जिघ्नसे शु꣣द्धो꣡ वाज꣢꣯ꣳ सिषाससि ॥१४०४॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । शुद्धः । हि । नः꣣ । रयि꣢म् । शु꣣द्धः꣢ । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ । शु꣣द्धः꣢ । वृ꣣त्रा꣡णि꣢ । जि꣣घ्नसे । शुद्धः꣢ । वा꣡ज꣢꣯म् । सि꣣षाससि ॥१४०४॥
स्वर रहित मन्त्र
इन्द्र शुद्धो हि नो रयिꣳ शुद्धो रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजꣳ सिषाससि ॥१४०४॥
स्वर रहित पद पाठ
इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे । शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिषाससि ॥१४०४॥
सामवेद - मन्त्र संख्या : 1404
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
हे (इन्द्र) जगदीश्वर आचार्य नृपते वा ! (शुद्धः हि) पवित्रः खलु, त्वम् (नः) अस्मभ्यम् (रयिम्) विद्याधनधान्यारोग्याद्यैश्वर्यम् ददासि। (शुद्धः) पवित्रः त्वम् (दाशुषे) आत्मसमर्पणं परोपकारं वा कुर्वते (रत्नानि) रमणीयानि अहिंसासत्यादीनि भौतिकानि वा रत्नानि प्रयच्छसि। [रत्नधातमं रमणीयानां धनानां दातृतमम् इति यास्कः। निरु० ७।१५।] (शुद्धः) पवित्रस्त्वम् (वृत्राणि) विघ्नान् शत्रून् वा (जिघ्नसे) हंसि। [हन हिंसागत्योः, अदादिः, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुर्व्यत्ययेनात्मनेपदं च।] (शुद्धः) पवित्रस्त्वम् (वाजम्) बलम् (सिषाससि) दातुमिच्छसि। [षणु दाने, सनि रूपम्] ॥३॥
भावार्थः - परमेश्वर आचार्यो राजा च ज्ञानेन कर्मणा चरित्रेण च शुद्धाः सन्त एव विद्यासत्याहिंसारोग्यधनबलादिप्रदानं विघ्नदोषशत्र्वादिनाशनं च कर्तुं क्षमन्ते ॥३॥ अस्मिन् खण्डे परमात्ममहिमवर्णनादाचार्यस्य नृपतेश्चापि गुणवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें