Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1405
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣ग्ने꣡ स्तोमं꣢꣯ मनामहे सि꣣ध्र꣢म꣣द्य꣡ दि꣢वि꣣स्पृ꣡शः꣢ । दे꣣व꣡स्य꣢ द्रविण꣣स्य꣡वः꣢ ॥१४०५॥

स्वर सहित पद पाठ

अ꣣ग्नेः꣢ । स्तो꣡म꣢꣯म् । म꣣नामहे । सिध्र꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दि꣣विस्पृ꣡शः꣢ । दि꣣वि । स्पृ꣡शः꣢꣯ । दे꣣व꣡स्य꣢ । द्र꣣विणस्य꣡वः꣢ ॥१४०५॥


स्वर रहित मन्त्र

अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः ॥१४०५॥


स्वर रहित पद पाठ

अग्नेः । स्तोमम् । मनामहे । सिध्रम् । अद्य । अ । द्य । दिविस्पृशः । दिवि । स्पृशः । देवस्य । द्रविणस्यवः ॥१४०५॥

सामवेद - मन्त्र संख्या : 1405
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(द्रविणस्यवः) धनबलकामाः वयम्। [द्रविणः धनं बलं वा कामयन्ते ये ते द्रविणस्यवः। द्रविणम् शब्दाद् आत्मन इच्छायामर्थे क्यचि ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः।] (अद्य) अस्मिन् दिने (दिविस्पृशः) दिवि तेजसि स्पर्शयति प्रवेशयति यः तस्य (देवस्य) तेजस्विनः (अग्नेः) अग्रनायकस्य परमात्मनः (सिध्रम्) स्वभावसिद्धम् (स्तोमम्) गुणसमूहम् (मनामहे) मुहुर्मुहुर्गायामः। [म्ना अभ्यासे, पाघ्राध्मास्थाम्ना०। अ० ७।३।७८ इति धातोर्मनादेशः, व्यत्ययेनात्मनेपदम्] ॥१॥२

भावार्थः - परमेश्वरस्योपासनया तदीयगुणगानेन च मनुष्य आध्यात्मिकमैश्वर्यमात्मबलं च प्राप्नोति ॥१॥

इस भाष्य को एडिट करें
Top