Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1406
ऋषिः - सुतंभर आत्रेयः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
अ꣣ग्नि꣡र्जु꣢षत नो꣣ गि꣢रो꣣ हो꣢ता꣣ यो꣡ मानु꣢꣯षे꣣ष्वा꣢ । स꣡ य꣢क्ष꣣द्दै꣢व्यं꣣ ज꣡न꣢म् ॥१४०६॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । जु꣣षत । नः । गि꣡रः꣢꣯ । हो꣡ता꣢꣯ । यः । मा꣡नु꣢꣯षेषु । आ । सः । य꣣क्षत् । दै꣡व्य꣢꣯म् । ज꣡न꣢꣯म् ॥१४०६॥
स्वर रहित मन्त्र
अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्षद्दैव्यं जनम् ॥१४०६॥
स्वर रहित पद पाठ
अग्निः । जुषत । नः । गिरः । होता । यः । मानुषेषु । आ । सः । यक्षत् । दैव्यम् । जनम् ॥१४०६॥
सामवेद - मन्त्र संख्या : 1406
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरोऽस्मभ्यं किं कुर्यादित्याशास्यते।
पदार्थः -
(अग्निः) अग्रनायकः परमेश्वरः (नः) अस्माकम् (गिरः) स्तुतिवाचः प्रार्थनावाचो वा (जुषत) सेवेत, स्वीकुर्यात्। [जुषी प्रीतिसेवनयोः तुदादिः, विध्यर्थे लङि अडागमाभावः।] (यः) परमेश्वरः (मानुषेषु) मनुष्येषु (होता) तेषां जीवनयज्ञस्य निष्पादकः सन् (आ) आवसति। [उपसर्गश्रुत्या योग्यक्रियाध्याहारः।] (सः) असौ (दैव्यम्) दिव्येषु गुणेषु निष्णातम् (जनम्) विद्वांसम् (यक्षत्) अस्मभ्यं प्रदद्यात्। [यज दानार्थः, सिब्बहुलं लेटि। अ० ३।१।३४ इति सिबागमे रूपम्] ॥२॥२
भावार्थः - यस्मिन् राष्ट्रे दिव्यगुणा विद्वांसो जना भवन्ति तद् राष्ट्रं समुन्नतं जायते ॥२॥
इस भाष्य को एडिट करें