Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1407
ऋषिः - सुतंभर आत्रेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

त्व꣡म꣢ग्ने स꣣प्र꣡था꣢ असि꣣ जु꣢ष्टो꣣ हो꣢ता꣣ व꣡रे꣢ण्यः । त्व꣡या꣢ य꣣ज्ञं꣡ वि त꣢꣯न्वते ॥१४०७॥

स्वर सहित पद पाठ

त्वम् । अ꣣ग्ने । सप्र꣡थाः꣢ । स꣣ । प्र꣡थाः꣢꣯ । अ꣣सि । जु꣡ष्टः꣢꣯ । हो꣡ता꣢꣯ । व꣡रे꣢꣯ण्यः । त्व꣡या꣢꣯ । य꣣ज्ञ꣢म् । वि । त꣣न्वते ॥१४०७॥


स्वर रहित मन्त्र

त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वि तन्वते ॥१४०७॥


स्वर रहित पद पाठ

त्वम् । अग्ने । सप्रथाः । स । प्रथाः । असि । जुष्टः । होता । वरेण्यः । त्वया । यज्ञम् । वि । तन्वते ॥१४०७॥

सामवेद - मन्त्र संख्या : 1407
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक तेजोमय परमात्मन् ! त्वम् (सप्रथाः) यशस्वी। [प्रथ प्रख्याने, ‘सर्वधातुभ्योऽसुन्।’ उ० ४।१९० इत्यसुन्। प्रथसा सह वर्तते इति सप्रथाः।] (जुष्टः) प्रियः [जुषी प्रीतिसेवनयोः।] (होता) सुखप्रदाता, (वरेण्यः) सर्वैः वरणीयश्च (असि) विद्यसे। उपासकाः (त्वया) त्वत्साहाय्येन (यज्ञम्) जीवनयज्ञम् (वितन्वते) विस्तारयन्ति ॥३॥२

भावार्थः - मानवाः स्वकीयं जीवनयज्ञं परमयशसः परमेश्वरस्य सहयोगेनैव पूर्णतां नेतुं पारयन्ति ॥३॥

इस भाष्य को एडिट करें
Top