Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1408
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
8

अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡म꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णीः꣢ । व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢꣫ सिन्धु꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥१४०८॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्रि꣣पृष्ठ꣢म् । त्रि꣣ । पृष्ठ꣢म् । वृ꣡ष꣢꣯णम् । व꣣योधा꣢म् । व꣣यः । धा꣢म् । अ꣣ङ्गोषि꣡ण꣢म् । अ꣣वावशन्त । वा꣡णीः꣢꣯ । व꣡ना꣢꣯ । व꣡सा꣢꣯नः । व꣡रु꣢꣯णः । न । सि꣡न्धुः꣢꣯ । वि । र꣣त्न꣢धाः । र꣣त्न । धाः꣢ । द꣣यते । वा꣡र्या꣢꣯णि ॥१४०८॥


स्वर रहित मन्त्र

अभि त्रिपृष्ठं वृषणं वयोधामङ्गोषिणमवावशन्त वाणीः । वना वसानो वरुणो न सिन्धुर्वि रत्नधा दयते वार्याणि ॥१४०८॥


स्वर रहित पद पाठ

अभि । त्रिपृष्ठम् । त्रि । पृष्ठम् । वृषणम् । वयोधाम् । वयः । धाम् । अङ्गोषिणम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धुः । वि । रत्नधाः । रत्न । धाः । दयते । वार्याणि ॥१४०८॥

सामवेद - मन्त्र संख्या : 1408
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
प्रथमः—नृपतिपरः। (वाणीः) वाण्यः, प्रजानां वाचः (त्रिपृष्ठम्) त्रीणि पृष्ठानि यस्य तम्—विशः एकं पृष्ठम्, सभासमिती द्वितीयं पृष्ठम्, सेना तृतीयं पृष्ठम्। [स विशोऽनुव्यचलत्, तं सभा च समितिश्च सेना च। (अथ० १५।९।१, २) इति वचनात्।] (वृषणम्) बलवन्तं सुखवर्षकं वा, (वयोधाम्) वयसः अन्नस्य धातारं प्रदातारम्। [वयः इत्यन्ननाम। निरु० ६।४।] (अङ्गोषिणम्) सर्वेषु राज्याङ्गेषु कृतनिवासम्। [अङ्गपूर्वाद् वसतेरिन् प्रत्ययः धातोः सम्प्रसारणं च। ‘स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च राज्याङ्गानि’ इत्यमरः (२।८।१८)।] एतादृशं सोमं नृपतिम् (अभि अवावशन्त) अभि स्तुवन्ति। [वाशृ शब्दे, यङ्लुगन्ताल्लङ्। ‘वावशानः वष्टेर्वा वाश्यतेर्वा’ इति निरुक्तम् (५।१)] (वना) वनानि अरण्यानि (वसानः) आच्छादयन् (वरुणः न) अग्निरिव। [त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒। ऋ० ५।३।१ इति श्रुतेः। ‘यो वै वरुणः सोऽग्निः’ इति च ब्राह्मणम्। (श० ५।२।४।१३)।] (वना) वनानि तेजांसि। [वनमिति रश्मिनाम। निघं० १।५।] (वसानः) धारयन् स सोमो नृपतिः (सिन्धुः) समुद्र इव इति लुप्तोपमम् (रत्नधाः) रत्नाकरः सन् (वार्याणि) वरणीयानि रत्नानि रमणीयानि ऐश्वर्याणि (वि दयते) विशेषेण प्रजाभ्यो ददाति ॥ द्वितीयः—जीवात्मपरः। (त्रिपृष्ठम्) त्रीणि पृष्ठानि ज्ञानकर्मोपासनारूपाणि यस्य तम्, (वृषणम्) बलिनम्, बलवर्षकं वा, (वयोधाम्) वयसः आयुष धारयितारम्, (अङ्गोषिणम्) ईशस्तोमवन्तं सोमं जीवात्मानम्। [आङ्गूषः स्तोमः आघोषः इति यास्कः (निरु० ५।११)] (वाणीः) वेदवाचः (अभि अवावशन्त) स्तुवन्ति, महत्तां वर्णयन्तीत्यर्थः—सू॒रिर॑सि वर्चो॒धा अ॑सि तनूपानो॑ऽसि। आ॒प्नुहि श्रेयां॑समति॑ समं क्रा॒म ॥ अथ० २।११।४ इत्यादिभिरुत्साहप्रदैर्वचोभिरुद्बोधयन्तीत्यर्थः। (वरुणः न) सूर्य इव (वना) तेजांसि (वसानः) धारयन्, (सिन्धुः) रत्नाकरः इव (रत्नधा) रमणीयानां सद्गुणरत्नानां धारयिता स सोमः जीवात्मा (वार्याणि) वारयितव्यानि विघ्नादीनि (विदयते) विशेषेण हिनस्ति ॥१॥ अत्र श्लेषः श्लिष्टोपमा लुप्तोपमा चालङ्कारः ॥१॥

भावार्थः - यो राजा प्रजा अनुरञ्जयति प्रजा अपि तस्य गुणान् गायन्ति। तथैव यो देहधारी जीवात्मा स्वशक्तिं परिचित्य स्वकीयतेजोभिः सर्वानान्तरान् बाह्यांश्च विघ्नानुन्मूलयन्ति स सर्वत्र विजयते ॥१॥

इस भाष्य को एडिट करें
Top