Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1410
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
6
उ꣣रु꣡ग꣢व्यूति꣣र꣡भ꣢यानि कृ꣣ण्व꣡न्त्स꣢मीची꣣ने꣡ आ प꣢꣯वस्वा꣣ पु꣡र꣢न्धी । अ꣣पः꣡ सिषा꣢꣯सन्नु꣣ष꣢सः꣣ स्व꣢ऽ३र्गाः꣡ सं चि꣢꣯क्रदो म꣣हो꣢ अ꣣स्म꣢भ्यं꣣ वा꣡जा꣢न् ॥१४१०॥
स्वर सहित पद पाठउ꣣रु꣡ग꣢व्यूतिः । उ꣣रु꣢ । ग꣣व्यूतिः । अ꣡भ꣢꣯यानि । अ । भ꣣यानि । कृ꣣ण्व꣢न् । स꣣मीचीने꣢ । स꣣म् । ईचीने꣡इति꣢ । आ । प꣢वस्व । पु꣡र꣢꣯न्धी । पु꣡र꣢꣯म् । धी꣣इ꣡ति꣢ । अ꣣पः꣢ । सि꣡षा꣢꣯सन् । उ꣣ष꣡सः꣢ । स्वः꣢ । गाः । सम् । चि꣣क्रदः । महः꣢ । अ꣣स्म꣡भ्य꣢म् । वा꣡जा꣢꣯न् ॥१४१०॥
स्वर रहित मन्त्र
उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी । अपः सिषासन्नुषसः स्वऽ३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥१४१०॥
स्वर रहित पद पाठ
उरुगव्यूतिः । उरु । गव्यूतिः । अभयानि । अ । भयानि । कृण्वन् । समीचीने । सम् । ईचीनेइति । आ । पवस्व । पुरन्धी । पुरम् । धीइति । अपः । सिषासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥१४१०॥
सामवेद - मन्त्र संख्या : 1410
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मानं राजानं च प्रार्थयते।
पदार्थः -
प्रथमः—परमात्मपरः। हे सोम सर्वान्तर्यामिन् परमात्मन् ! (उरुगव्यूतिः) विस्तीर्णमार्गः विस्तीर्णकार्यक्षेत्रः इत्यर्थः, सर्वेषाम् (अभयानि) भयराहित्यानि (कृण्वन्) कुर्वन् त्वम् (समीचीने) परस्परं संगते (पुरन्धी) द्यावापृथिव्यौ। [पुरन्धी इति द्यावापृथिव्योर्नाम। निघं० ३।३०।] देहपुर्याः धारकौ प्राणापानौ वा (आ पवस्व) आ पुनीहि। (अपः) उदकानि, (उषसः) प्रभातकान्तीः, (स्वः) सूर्यम्, (गाः) भूमीश्च (सिषासन्) प्रयच्छन् त्वम्। [षणु दाने स्वार्थिकः सन्] (अस्मभ्यम्) अस्मत्कृते (महः वाजान्) महान्ति अन्नधनबलादीनि (संचिक्रदः) आह्वयसि, ददासीत्यर्थः। [संपूर्वः क्रदि आह्वाने रोदने च णिजन्तस्य लुङि रूपम्, अडागमाभावश्छान्दसः] ॥ द्वितीयः—नृपतिपरः। हे सोम प्रजापालक राजन् (उरुगव्यूतिः) राष्ट्रे यातायाताय विस्तीर्णमार्गाणां निर्मापयिता, तेषु मार्गेषु (अभयानि) भयराहित्यानि (कृण्वन्) कुर्वन् त्वम् (समीचीने) सम्यक् कार्यतत्परौ पुरन्धी स्त्रीपुरुषौ (आ पवस्व) सहायतार्थम् आगच्छ। त्वम् (अपः) नदीप्रपातादीनाम् उदकानि, (उषसः) विद्युतः। [उषा वष्टेः कान्तिकर्मणः, उच्छेतेरितरा माध्यमिका। निरु० १२।६। अपोषा अनसः सरत् संपिष्टादह बिभ्युषी (ऋ० ४।३०।१०) अपासरदुषा अनसः संपिष्टान्मेघाद् बिभ्युषी। निरु० ११।४३।] (स्वः) सूर्यम् (गाः) भूमीश्च (सिषासन्) संभक्तुम् उपयोक्तुम् इच्छन् (अस्मभ्यम्) प्रजाभ्यः (महः वाजान्) महान्ति अन्नधनादीनि (संचिक्रदः) समाह्वय, समानयेत्यर्थः ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
भावार्थः - परमेश्वरेणास्मभ्यं भूम्युदकवायुविद्युत्सूर्यरश्म्यादयः पदार्था निःशुल्कं प्रदत्ताः सन्ति। राज्ञः कर्तव्यमस्ति यत्तान् शिल्पकार्येषूपयुज्य राष्ट्रवासिनः सुखयेत् ॥३॥
इस भाष्य को एडिट करें