Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1411
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
4

त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥१४११॥

स्वर सहित पद पाठ

त्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣣ । त्वम् । वृ꣣त्रा꣡णि꣢ । ह꣣ꣳसि । अप्रती꣡नी꣢ । अ꣣ । प्रती꣡नी꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥१४११॥


स्वर रहित मन्त्र

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥१४११॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पतिः । त्वम् । वृत्राणि । हꣳसि । अप्रतीनी । अ । प्रतीनी । एकः । इत् । पुरु । अनुत्तः । अ । नुत्तः । चर्षणीधृतिः । चर्षणि । धृतिः ॥१४११॥

सामवेद - मन्त्र संख्या : 1411
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) परमात्मन् राजन् आचार्य वा ! (त्वम् यशाः) यशस्वी, (ऋजीषी२) ऋजुनीतिः, (शवसः पतिः) आत्मबलस्य देहबलस्य विद्याबलस्य वा स्वामी च (असि) वर्तसे। (एकः इत्) अद्वितीयः एव (त्वम् पुरु) पुरुणि बहूनि (अप्रतीनि)अप्रतिद्वन्द्वीनि (वृत्राणि) अज्ञानपापदुःखदुर्व्यसनादीनि (हंसि) विनाशयसि। हे परमात्मन्, राजन्, आचार्य वा ! त्वम् (अनुत्तः) केनापि अप्रेरितः, स्वत एव (चर्षणीधृतिः) मनुष्याणां धारको भवसि ॥१॥

भावार्थः - यथा परमेश्वरो जगदुपकारकैः स्वकार्यैः कीर्तिमान् सन् ऋजुनीत्या सर्वेषां दोषदुःखदुर्व्यसनादीनि हन्ति तथैव नृपतिना गुरुणा च कार्यम् ॥१॥

इस भाष्य को एडिट करें
Top