Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1418
ऋषिः - नोधा गौतमः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
8
सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः । ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥१४१८॥
स्वर सहित पद पाठसा꣣कमु꣡क्षः꣢ । सा꣣कम् । उ꣡क्षः꣢꣯ । म꣣र्जयन्त । स्व꣡सा꣢꣯रः । द꣡श꣢꣯ । धी꣡र꣢꣯स्य । धी꣣त꣡यः꣢ । ध꣡नु꣢꣯त्रीः । ह꣡रिः꣢꣯ । प꣡रि꣢꣯ । अ꣣द्रवत् । जाः꣢ । सू꣡र्य꣢꣯स्य । सु । ऊ꣣र्यस्य । द्रो꣡ण꣢꣯म् । न꣣नक्षे । अ꣡त्यः꣢꣯ । न । वा꣣जी꣢ ॥१४१८॥
स्वर रहित मन्त्र
साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥१४१८॥
स्वर रहित पद पाठ
साकमुक्षः । साकम् । उक्षः । मर्जयन्त । स्वसारः । दश । धीरस्य । धीतयः । धनुत्रीः । हरिः । परि । अद्रवत् । जाः । सूर्यस्य । सु । ऊर्यस्य । द्रोणम् । ननक्षे । अत्यः । न । वाजी ॥१४१८॥
सामवेद - मन्त्र संख्या : 1418
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५३८ क्रमाङ्के सोमौषधिविषये परमात्मप्राप्तिविषये च व्याख्याता। अत्र परमात्मप्राप्तिविषय एव प्रकारान्तरेणोच्यते।
पदार्थः -
(धीरस्य) ध्यानरतस्य जीवात्मनः (साकमुक्षः) युगपत् ज्ञानसेक्त्र्यः, (स्वसारः) भगिनीवत् प्रियाः, (धनुत्र्यः) प्रीणयित्र्यः (दश) दशसंख्यकाः (धीतयः) प्रज्ञाः—चत्वारो वेदाः षड् वेदाङ्गानि च, (मर्जयन्त) मार्जयन्ति। ततश्च (सूर्यस्य) सूर्यवत् प्रकाशमानस्य प्रकाशकस्य च परमात्मनः (जाः) पुत्रः (हरिः) जीवात्मा (पर्यद्रवत्) परिद्रवति, परमात्मानं प्राप्तुं सक्रियो भवति, किञ्च (अत्यः न) अश्वः इव (वाजी) वेगवान् सः (द्रोणम्) प्राप्तव्यं तं स्वपितृभूतं परमात्मानम्। [द्रूयते प्राप्यते इति द्रोणः। कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१० इति नः प्रत्ययः, तस्य निद्वद्भावश्च, नित्त्वादाद्युदात्तत्वम्।] (ननक्षे) प्राप्नोति ॥१॥ अत्रोपमालङ्कारः। द्वितीये पादे धकारानुप्रासः चतुर्थे च नकारानुप्रासः ॥१॥
भावार्थः - वेदवेदाङ्गान्याचार्यात् सम्यगधीत्य ज्ञानवान् नितान्तनिर्मलस्वान्तो जीवोऽभ्युदयं निःश्रेयसं च प्राप्तुं क्षमते ॥१॥
इस भाष्य को एडिट करें